कुडवेशं च विद्याध्रं मर्कटेश्वरतीर्थकम्
शङ्कराक गन्धवतीतीर्थं पापप्रणाशनम्
पिशाचकादियात्रा च हनुमत्कवचेश्वरौ
शुक्रे च पञ्चमे चाख्ये कुशस्थल्याः प्रदक्षिणाः
करभेशाख्यतीर्थं च लटुकेशादितीर्थकम्
केदारेश्वररामेशसौभाग्येशनरार्ककम्
ओङ्कारेशादितीर्थानि अन्धकश्रुतिकीर्तनम्
कुशस्थल्या अवन्त्याश्चोज्जयिन्या अभिधानकम्
विशालाप्रतिकल्पाभिधानं च ज्वरशान्तिकम्
हिरण्याक्षवधाख्यानं तीर्थं सुंदरकुण्डकम्
पुरुषोत्तमाभिधानं तु तत्तीर्थं चाघनाशनम्
वीरेश्वरसरः कालभैरवस्य च तीर्थकम्
कुटुम्बेश्वरयात्रा च देवसाधककीर्तनम्
रुन्द्रकुण्डप्रभृतिषु बहुतीर्थनिरूपणम्
धर्मपुत्रस्य वैराग्यो मार्कण्डेयेन संगमः
कल्पे कल्पे पृथङ् नाम नर्मदायाः प्रकीर्तितम्
महादेवस्तुतिः पश्चात्पृथक्कल्पकथाद्भुता
गोरीव्रत समाख्यानं त्रिपुरज्वालनं ततः
दारुतीर्थं ब्रह्मावर्तं यत्रेश्वरकथानकम्
देवतीर्थं नर्मदेशं कपिलाख्यं करञ्जकम्
शचीहरणमाख्या नमभ्रकस्य वधस्ततः
आख्यानं दीर्घतपस ऋष्यशृङ्गकथा ततः
ततो देवशिलाख्यानं शबरीतीर्थकान्वितम्
आप्रेत्येश्वरतीर्थं च शक्रतीर्थं करोटिकम्
लोकेशं धनदेशं च मङ्गलेशं च कामजम्
नारदेशं नन्दिकेशं वरुणेश्वरतीर्थकम्
रामेश्वरादि तीर्थानि सोमेशं पिङ्गलेश्वरम्
चण्डार्कं यमतीर्थं च काल्होडीशं वनादिके
नागेशसंकर्षणकं प्रश्रयेश्वरतीर्थकम्
करञ्जं कामहं तीर्थं भाण्डीरो रोहिणीभवम्