पतिव्रताचरित्रं च तीर्थयात्रा प्रशंसनम्
बुधस्य च तथेन्द्राग्न्योर्लोकाप्तिः शिवशर्मणः
गन्धवत्यलकापुर्योरीश्वर्याश्च समुद्भवः
मम विष्णोर्ध्रुवस्यापि तपोलोकस्य वर्णनम्
स्कन्दागस्त्यसमालापो मणिकर्णीसमुद्भवः
वाराणसीप्रशंसा च भैरवाविर्भवस्ततः
ततः कलावत्याख्यानं सदाचारनिरूपणम्
कृत्याकृत्यविनिर्देशो ह्यविमुक्तेशवर्णनम्
दिवोदासकथा पुण्या काशिकावर्णनं ततः
विष्णुमायाप्रपञ्चो ऽथ दिवोदासविमोक्षणम्
ततो वैष्णवतीर्थाख्या शूलिनः काशिकागमः
क्षेत्राख्यानं कन्दुकेशः व्याघ्रेश्वरसमुद्भवः
देवतानामधिष्टानं दुर्गासुरपराक्रमः
पुनराएङ्कार माहात्म्य त्रिलोचोनसमुद्भवः
वीरेश्वरसमाख्यानं गङ्गामाहात्म्यकीर्तनम्
सतीशस्यामृतेशादेर्भुजस्तंभः पराशरे
विश्वेशविभवश्चाथ ततो यात्रापरिक्रमः
महाकालवनाख्यानं ब्रह्मशीर्षच्छिदा ततः
देवदीक्षा शिवस्तोत्रं नानापातकनाशनम्
तीर्थं कनखलेशस्य सर्वपापप्रणाशनम्
कुडवेशं च विद्याध्रं मर्कटेश्वरतीर्थकम्
शङ्कराक गन्धवतीतीर्थं पापप्रणाशनम्
पिशाचकादियात्रा च हनुमत्कवचेश्वरौ
शुक्रे च पञ्चमे चाख्ये कुशस्थल्याः प्रदक्षिणाः
करभेशाख्यतीर्थं च लटुकेशादितीर्थकम्
केदारेश्वररामेशसौभाग्येशनरार्ककम्
ओङ्कारेशादितीर्थानि अन्धकश्रुतिकीर्तनम्
कुशस्थल्या अवन्त्याश्चोज्जयिन्या अभिधानकम्
विशालाप्रतिकल्पाभिधानं च ज्वरशान्तिकम्
हिरण्याक्षवधाख्यानं तीर्थं सुंदरकुण्डकम्