स्थाणुः स्कन्दाय भगवान्यत्र तत्त्वमुपादिशत्
कर्ंमसिद्धेः समाख्यानं ऋषिवंशनिरूपणम्
वर्णानामाश्रमाणां च धर्मतत्त्वनिरूपणम्
छत्रानन्दा तथा शान्ता श्रीमाता च मतङ्गिनी
इन्द्रेश्वरादिमाहात्म्यं द्वारकादिनिरूपणम्
श्रीरामचरितं चैव सत्यमन्दिरवर्णनम्
जातिभेदप्रकथनं स्मृतिधर्मनिरूपणम्
चातुर्मास्ये ततः पुण्ये सर्वधमनिरूपणम्
तपश्चैव पूजायाः सच्छिद्रकथनं ततः
भारकस्य वधोपायो वृक्षाचामहिमा तथा
हरस्य ताण्डवं नृत्यं रामनामनिरूपणम्
पार्वतीजन्मचरितं तारकस्य वधो ऽद्भुतः
दक्षयज्ञसमाप्तिश्च द्वादशाक्षरभूषणम्
श्रवणादिकपुण्यं च कीर्तितं शर्मदं नृणाम्
पञ्चाक्षरस्य महिमा गोकर्णमहिमा ततः
सोमवारव्रतं चापि सीमन्तिन्याः कथानकम्
शिववर्मसमुद्देशो भद्रायूद्वाहवर्णनम्
शबराख्यानकं चैव उमामाहेश्वरं व्रतम्
श्रवणादिकपुण्यं च ब्रह्मखण्डो ऽयमीरितः
विन्ध्यनारदयोर्यत्र संवादः परिकीर्तितः
पतिव्रताचरित्रं च तीर्थयात्रा प्रशंसनम्
बुधस्य च तथेन्द्राग्न्योर्लोकाप्तिः शिवशर्मणः
गन्धवत्यलकापुर्योरीश्वर्याश्च समुद्भवः
मम विष्णोर्ध्रुवस्यापि तपोलोकस्य वर्णनम्
स्कन्दागस्त्यसमालापो मणिकर्णीसमुद्भवः
वाराणसीप्रशंसा च भैरवाविर्भवस्ततः
ततः कलावत्याख्यानं सदाचारनिरूपणम्
कृत्याकृत्यविनिर्देशो ह्यविमुक्तेशवर्णनम्
दिवोदासकथा पुण्या काशिकावर्णनं ततः
विष्णुमायाप्रपञ्चो ऽथ दिवोदासविमोक्षणम्