नानापुष्पार्चनफलं तुलसीदलजं फलम्
अखण्डैकादशीपुण्यं तथा जागरणस्य च
ध्यानादिपुण्यकथनं माहात्म्यं मथुराभवम्
वनानां द्वादशानां च माहात्म्यं कीर्तितं ततः
वज्रशाण्डिल्यसंवाद अन्तर्लीलाप्रकाशकम्
नानाख्यानसमायुक्तं दशाध्यायैर्निरूपितम्
जलदा नादिविधयः कामाख्यानमतः परम्
तथाक्षयतृतीयादेर्विशेषात्पुण्यकीर्तनम्
सुरापापविमोक्षाख्ये तथाधारसहस्रकम्
स्वर्णवृष्टेरुपाख्यानं तिलोदासरयूयुतिः
गोप्रतारं च दुग्धोदं गुरुकुण्डादिपञ्चकम्
गयाकूपस्य माहात्म्यं सर्वाघविनिवर्तकम्
अजितादि मानसादितीर्थानि गदितानि च
अतः परं ब्रह्मखण्डं मरीचे शृणु पुण्यदम्
गालवस्य तपश्चर्या राक्षसाख्यानकं ततः
वेतालतीर्थमहिमा पापनाशादिकीर्तनम्
हनुमत्कुण्डमहिमागस्त्यतीर्थभवं फलम्
शङ्खादितीर्थमहिमा तथा साध्यामृतादिजः
गायत्र्यादिकतीर्थानां माहात्म्यं चात्र कीर्तितम्
यात्राविधानकथनं सेतै मुक्तिप्रदं नृणाम्
स्थाणुः स्कन्दाय भगवान्यत्र तत्त्वमुपादिशत्
कर्ंमसिद्धेः समाख्यानं ऋषिवंशनिरूपणम्
वर्णानामाश्रमाणां च धर्मतत्त्वनिरूपणम्
छत्रानन्दा तथा शान्ता श्रीमाता च मतङ्गिनी
इन्द्रेश्वरादिमाहात्म्यं द्वारकादिनिरूपणम्
श्रीरामचरितं चैव सत्यमन्दिरवर्णनम्
जातिभेदप्रकथनं स्मृतिधर्मनिरूपणम्
चातुर्मास्ये ततः पुण्ये सर्वधमनिरूपणम्
तपश्चैव पूजायाः सच्छिद्रकथनं ततः
भारकस्य वधोपायो वृक्षाचामहिमा तथा