नीलकण्ठसमाख्यानं नरसिंहोपवर्णनम्
रथयाव्राविधिः पश्चाज्जन्मस्थानविधिस्तथा
रथरक्षाविधानं च शयनोत्सवकीर्तनम्
दोलोत्सवो भगवतो व्रतं सांवत्सराभिधम्
योगसाधनमत्रोक्तं नानायोगनिरूपणम्
ततो बदरिकायाश्च माहात्म्यं पापनाशनम्
कारणं भगवद्वासे तीर्थं कापालमोचनम्
ततः कार्तिकमाहात्म्ये माहात्म्यं मदनालसम्
पञ्चभीष्मव्रताख्यानं कीर्तितं भुक्तिमुक्तिदम्
पुण्ड्रादिकीर्तनं चात्र मालाधारणपुण्यकम्
नानापुष्पार्चनफलं तुलसीदलजं फलम्
अखण्डैकादशीपुण्यं तथा जागरणस्य च
ध्यानादिपुण्यकथनं माहात्म्यं मथुराभवम्
वनानां द्वादशानां च माहात्म्यं कीर्तितं ततः
वज्रशाण्डिल्यसंवाद अन्तर्लीलाप्रकाशकम्
नानाख्यानसमायुक्तं दशाध्यायैर्निरूपितम्
जलदा नादिविधयः कामाख्यानमतः परम्
तथाक्षयतृतीयादेर्विशेषात्पुण्यकीर्तनम्
सुरापापविमोक्षाख्ये तथाधारसहस्रकम्
स्वर्णवृष्टेरुपाख्यानं तिलोदासरयूयुतिः
गोप्रतारं च दुग्धोदं गुरुकुण्डादिपञ्चकम्
गयाकूपस्य माहात्म्यं सर्वाघविनिवर्तकम्
अजितादि मानसादितीर्थानि गदितानि च
अतः परं ब्रह्मखण्डं मरीचे शृणु पुण्यदम्
गालवस्य तपश्चर्या राक्षसाख्यानकं ततः
वेतालतीर्थमहिमा पापनाशादिकीर्तनम्
हनुमत्कुण्डमहिमागस्त्यतीर्थभवं फलम्
शङ्खादितीर्थमहिमा तथा साध्यामृतादिजः
गायत्र्यादिकतीर्थानां माहात्म्यं चात्र कीर्तितम्
यात्राविधानकथनं सेतै मुक्तिप्रदं नृणाम्