तस्य माहेश्वरश्चाथ खण्डः पापप्रणाशनः
सुचरित्रशतैर्युक्तः स्कन्दमाहात्म्यसूचकः
दक्षयज्ञकथा पश्चाच्छिवलिङ्गार्चने फलम्
पार्वत्याः समुपाख्यानं विवाहस्तदनन्तरम्
ततः पाशुपताख्यानं चण्डाख्यानसमन्वितम्
ततः कुमारमाहात्म्ये पञ्चतीर्थकथानकम्
इन्द्रद्युम्नकथा पश्चान्नाडीजङ्घकथान्वितम्
महीसागरसंयोगः कुमारेशकथा ततः
वधश्च तारकस्याथ पञ्चलिङ्गनिवेशनम्
ब्रह्माण्डस्थितिमानं च वर्करेशकथानकम्
वासुदेवस्य माहात्म्यं कोटितीर्थं ततः परम्
पाण्डवानां कथा पुण्या महाविद्याप्रसाधनम्
अरुणाचलमाहात्म्यं सनकब्रह्मसंकथा
माहिषासुरमाख्यानं वधश्चास्य महाद्भुतः
इत्येष कथितः स्कान्दे खण्डो माहेश्वरो ऽद्भुतः
प्रथमं भूमिवाराहसमाख्यानं प्रकीर्तितम्
कमलायाः कथा पुण्या श्रीनिवासस्थितिस्ततः
नानाख्यानसमायुक्ता भारद्वाजकथाद्भुता
पुरुषोत्तममाहात्म्यं कीर्तितं चोत्कले ततः
इन्द्रद्युम्नस्य चाख्यानं विद्यापतिकथा शुभा
नीलकण्ठसमाख्यानं नरसिंहोपवर्णनम्
रथयाव्राविधिः पश्चाज्जन्मस्थानविधिस्तथा
रथरक्षाविधानं च शयनोत्सवकीर्तनम्
दोलोत्सवो भगवतो व्रतं सांवत्सराभिधम्
योगसाधनमत्रोक्तं नानायोगनिरूपणम्
ततो बदरिकायाश्च माहात्म्यं पापनाशनम्
कारणं भगवद्वासे तीर्थं कापालमोचनम्
ततः कार्तिकमाहात्म्ये माहात्म्यं मदनालसम्
पञ्चभीष्मव्रताख्यानं कीर्तितं भुक्तिमुक्तिदम्
पुण्ड्रादिकीर्तनं चात्र मालाधारणपुण्यकम्