सनत्कुमारनन्दीशसंवादश्च पुनर्मुने
सूर्यपूजाविधिश्चैव शिवपूजा च मुक्तिदा
प्रतिष्ठातं त्रमुदितं ततो ऽघोरस्य कीर्तनम्
त्र्यंबकस्य च माहात्म्यं पुराणश्रवणस्य च
व्यासेन हि निबद्धस्य रुद्रामाहात्म्यसूचितः
फआल्गुन्यां पूर्णिमायां यो दद्याद्भक्त्या द्विजातये
यः पटेच्छृणुयाद्वापि लैङ्गं पापापहं नरः
लिङ्गानुक्रमणीमेतां पठेद्यः शृणुयात्तथा
जायतां गिरिजाभर्तुः प्रसादान्नात्र संशयः
भागद्वययुतं शश्वद्विष्णुमाहात्म्यसूचकम्
निबबन्ध पुराणे ऽस्मिंश्चतुर्विंशसहस्रके
तत्रादौ शुभसंवादः स्मृतोभूमिवराहयोः
दुर्जयस्य च तत्पश्चाच्छ्राद्धकल्प उदीरितः
विनायकस्य नागानां सेनान्यादित्ययोरपि
आख्यानं सत्यतपसो व्रताख्यानसमन्वितम्
महिषासुरविध्वंसमाहात्म्यं च त्रिशक्तिजम्
इत्यादि कृतवृत्तान्तं प्रथमे दर्शितं मया
द्वात्रिंशदपराधानां प्रायश्चित्तं शरीरगम्
मथुराया विशेषेण श्राद्धादीनां विधिस्ततः
विपाकः कर्मणां चैव विष्णुव्रतनिरूपणम्
इत्येवं पूर्वभागो ऽयं पुराणस्य निरूपितः
संवादे सर्वतीर्थानां माहात्म्यं विस्तरात्पृथक्
इत्येवं तव वाराहं प्रोक्तं पापविनाशनम्
काञ्चनं गरुड कृत्वा तिलधेनुसमन्वितम्
स लभेद्वैष्णवं धाम देवर्षिगणवन्दितः
सो ऽपि भक्तिं लभेद्विष्णौ संसारोच्छेदकारिणीम्
यस्मिन्प्रतिपदं साक्षान्महादेवो व्यवस्थितः
लक्षं तस्यार्थं जातस्य सारो व्यासेन कीर्तितः
एकाशीतिसहस्रं तु स्कान्दं सर्वोघकृतंनम्
यत्र माहेश्वरा धर्माः षण्मुखेन प्रकाशिताः