पुराणं लिङ्गमुदितं बह्वाख्यानविचित्रितम्
परं सर्वपुराणानां सारभूतं जगत्त्रये
योगाख्यानं ततः प्रोक्तं कल्पाख्यानं ततः परम्
सनत्कुमारशैलादिसंवादश्चाथ पावनः
ततो भुवन कोशाख्या सूर्यसोमान्वयस्ततः
लिङ्गप्रतिष्ठा च ततः पशुपाशविमोक्षणम्
प्रायश्चितान्यरिष्टानि काशीश्रीशैलवर्णनम्
नृसिंहचरितं पश्चाज्जलन्धरवधस्ततः
कामस्य दहनं पश्चाद्गिरिजायाः करग्रहः
उपमन्युकथा चापि पूर्वभाग इतीरितः
सनत्कुमारनन्दीशसंवादश्च पुनर्मुने
सूर्यपूजाविधिश्चैव शिवपूजा च मुक्तिदा
प्रतिष्ठातं त्रमुदितं ततो ऽघोरस्य कीर्तनम्
त्र्यंबकस्य च माहात्म्यं पुराणश्रवणस्य च
व्यासेन हि निबद्धस्य रुद्रामाहात्म्यसूचितः
फआल्गुन्यां पूर्णिमायां यो दद्याद्भक्त्या द्विजातये
यः पटेच्छृणुयाद्वापि लैङ्गं पापापहं नरः
लिङ्गानुक्रमणीमेतां पठेद्यः शृणुयात्तथा
जायतां गिरिजाभर्तुः प्रसादान्नात्र संशयः
भागद्वययुतं शश्वद्विष्णुमाहात्म्यसूचकम्
निबबन्ध पुराणे ऽस्मिंश्चतुर्विंशसहस्रके
तत्रादौ शुभसंवादः स्मृतोभूमिवराहयोः
दुर्जयस्य च तत्पश्चाच्छ्राद्धकल्प उदीरितः
विनायकस्य नागानां सेनान्यादित्ययोरपि
आख्यानं सत्यतपसो व्रताख्यानसमन्वितम्
महिषासुरविध्वंसमाहात्म्यं च त्रिशक्तिजम्
इत्यादि कृतवृत्तान्तं प्रथमे दर्शितं मया
द्वात्रिंशदपराधानां प्रायश्चित्तं शरीरगम्
मथुराया विशेषेण श्राद्धादीनां विधिस्ततः
विपाकः कर्मणां चैव विष्णुव्रतनिरूपणम्