अथ वैकहविष्याशी कीर्तयेच्छृणुयादपि
यो ऽप्यनुक्रमणीमेतां भविष्यस्य निरूपिताम्
पठेद्वा शृणुयाच्चैतां भुक्तिं मुक्तिं च विन्दति
ब्रह्मवैवर्तकं नाम वेदमार्गानुदर्शकम्
नारदाय पुराणार्थं प्राह सर्वमलौकिकम्
तयोरभेदसिद्ध्यर्थं ब्रह्मवैवर्तमुत्तमम्
शतकोटिपुराणे तत्संक्षिप्य प्राह वेदवित्
अष्टादशसहस्रं तत्पुराणं परिकीर्तितम्
तत्र सूतर्षिसंवादे पुराणोपक्रमस्ततः
विवादः सुमहान्यत्र द्वयोरासीत्पराभवः
शिववाक्येन तत्पश्चान्मरीचेर्नारदस्य तु
आश्रमे सुमहापुण्ये त्रैलोक्याश्चर्यकारिणी
ततः सावर्णिसंवादो नारदस्य समीरितः
प्रकृतेरंशभूतानां कलानां चापि वर्णितम्
एतत्प्रकृतिखण्डं हि श्रुतं भूतिविधायकम्
पार्वत्याः कार्तिकेयेन सह विघ्नेशसंभवम्
विवादः सुमहानासीज्जामदग्र्यगणेशयोः
श्रीकृष्णजन्मसंप्रश्नो जन्माख्यानं ततो ऽद्भुतम्
बाल्यकौमारजा लीला विविधास्तत्र वर्णिताः
रहस्ये राधया क्रीडा वर्णिता बहुविस्तरा
कंसादीनां वधे वृत्ते कृष्णस्य द्विजसंस्कृतिः
यवनस्य वधः पश्चाद्द्वारकागमनं हरेः
कृष्णखण्डमिदं विप्र नृणां संसारखण्डनम्
इत्येतद्ब्रह्मवैवर्तपुराणं चात्यलौकिकम्
विज्ञानाज्ञानशमनाद्धोरात्संसारसागरात्
ब्रह्मलोकमवाप्नोति स मुक्तो ऽज्ञानबन्धनात्
सो ऽपि कृष्णप्रसादेन लभते वाञ्छितं फलम्
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने ब्रह्मवैवर्तपुराणानुक्रमणीनिरूपणं नामैकोत्तरशततमो ऽध्यायाः
पठतां शृण्वतां चैव भुक्तिमुक्तिप्रदायकम्
मह्यं धर्मादिसिद्ध्यर्थं मग्निकल्पकथाश्रयम्