पुस्तलेखकलेखानां लक्षणं च ततः परम्
पक्षस्यादितिथीनां च कल्पाः सप्त च कीर्तिताः
शैवे च कायतो भिन्नाः सौरे चान्त्यकथान्वयः
पुराणस्योपसंहारसहितं पर्व पञ्चमम्
धर्मे कामे च मोक्षे तु विष्णोश्चापि शिवस्य च
प्रतिसर्गाह्वयं त्वन्त्यं प्रोक्तं सर्वकथान्वितम्
चतुर्द्दशसहस्रं तु पुराणं परिकीर्तितम्
गुणानां तारतम्येन समं ब्रह्मेति हि श्रुतिः
गुडधेनुयुतं हेमवस्त्रमाल्यविभूषणैः
गन्धाद्यैर्भोज्यभक्ष्यैश्च कृत्वा नीराजनादिकम्
अथ वैकहविष्याशी कीर्तयेच्छृणुयादपि
यो ऽप्यनुक्रमणीमेतां भविष्यस्य निरूपिताम्
पठेद्वा शृणुयाच्चैतां भुक्तिं मुक्तिं च विन्दति
ब्रह्मवैवर्तकं नाम वेदमार्गानुदर्शकम्
नारदाय पुराणार्थं प्राह सर्वमलौकिकम्
तयोरभेदसिद्ध्यर्थं ब्रह्मवैवर्तमुत्तमम्
शतकोटिपुराणे तत्संक्षिप्य प्राह वेदवित्
अष्टादशसहस्रं तत्पुराणं परिकीर्तितम्
तत्र सूतर्षिसंवादे पुराणोपक्रमस्ततः
विवादः सुमहान्यत्र द्वयोरासीत्पराभवः
शिववाक्येन तत्पश्चान्मरीचेर्नारदस्य तु
आश्रमे सुमहापुण्ये त्रैलोक्याश्चर्यकारिणी
ततः सावर्णिसंवादो नारदस्य समीरितः
प्रकृतेरंशभूतानां कलानां चापि वर्णितम्
एतत्प्रकृतिखण्डं हि श्रुतं भूतिविधायकम्
पार्वत्याः कार्तिकेयेन सह विघ्नेशसंभवम्
विवादः सुमहानासीज्जामदग्र्यगणेशयोः
श्रीकृष्णजन्मसंप्रश्नो जन्माख्यानं ततो ऽद्भुतम्
बाल्यकौमारजा लीला विविधास्तत्र वर्णिताः
रहस्ये राधया क्रीडा वर्णिता बहुविस्तरा