कोटि संख्यं समुद्धृकत्य स्वकुलं शिवतां व्रजेत्
जन्मायुतार्जितैः पापैर्मुक्तो व्रजति तत्पदम्
स याति विष्णुभवनं कुलकोटिसमन्वितः
संपूज्य पापनिर्मुक्तो वसेद्भिष्णुपुरे युगम्
समभ्यर्च्य महाराज तत्तत्सालोक्यमान्पुयात्
दत्त्वा धूपे नरो भक्त्या सर्वपापैः प्रमुच्यते
दत्त्वा नरः सर्वकामान्मंप्राप्नोति नृपोत्तम
स मुक्तः सर्वपापेभ्यो गङ्गास्नानफलं लभेत्
दीपं तत्त्वा महाविष्णोः शिवस्यापि फलं शृणु
तत्तत्सालोक्यमाप्नोति त्रिःभत्पपुरुषान्वितः
दत्त्वा तत्तत्पदं याति चत्वारिशत्कुलान्वितः
स याति विष्णुभवनं पुनरावृत्तिदुर्लभम्
अन्नतोयसमन्दानं न भूतं न भविष्यति
सर्वदानफलं यस्मादन्नदस्य नृपोत्तम
न तस्य पुनरावृत्तिरिति शास्त्रेषु निश्चितम्
अन्नदानान्नृपश्रेष्ठ निर्दिष्टं श्रह्मवादिभिः
जलदो मुच्यते तेभ्य इत्याह कमलोद्भवः
तस्मादन्नप्रदो ज्ञेयः प्राणदः पृथिवीपते
तस्मादन्नसमं दानं नास्ति भूपाल भूपले
नपकं ते न पशअयन्ति तस्मादन्नप्रदो वरः
स स्नातः सर्वतीर्थेषु गङ्गास्नानपुरःसरम्
स स्त्रातो ऽष्टशतं साग्रं गङ्गायां नात्र संशयः
स कोटिकुलसंयुक्तो वसेद्वूह्यपुरे युगम्
तस्य विष्णुः प्रसन्नात्मा सर्वान्कामान्प्रयच्छति
सर्वान्कामानवान्पोति सर्वेपापविवार्जितः
तस्य प्रसन्नो देवेशः स्वलोकं संप्रयच्छति
स यातिब्रह्मसदनमन्येषामतिदुर्लभम्
तस्य पुण्यफलं वक्तुं नाहं शक्तो ऽस्मि पण्डित
स एव रुद्रो भूपाल सर्वपापविवर्जितः
यस्तस्य पुण्यं संख्यातु न शक्तो ऽब्दशतैरपि