पठतां शृण्वतां चैव सर्वपापहरं नृणाम्
सृष्टिप्रकरणं चाथ विष्णुपूजादिकं ततः
सर्वदीक्षाविधानं च अभिषेकनिरूपणम्
पवित्रारोपणविधिर्देवालयविधिस्ततः
न्यासादीनां विधानं च प्रतिष्ठापूर्तकं ततः
प्रतिष्ठा सर्वदेवानां ब्रह्मण्डस्य निरूपणम्
ऊर्द्ध्वाधोलोकरचना ज्योतिश्चक्रनिरूपणम्
षट्कर्म च ततः प्रोक्तं मन्त्रमन्त्रौषधीगणः
कोटिहोमविधानं च मन्वन्तरनिरूपणम्
ग्रहयज्ञस्ततः प्रोक्तोवैदिकस्मार्तकर्म च
वारव्रतानुकथनं नक्षत्रव्रतकीर्तनम्
नवव्यूहार्चनं प्रोक्तं नरकाणां निरूपणम्
नाडीचक्रसमुद्देशः संध्याविधिरनुत्तमः
राज्याभिषेकमन्त्रोक्तिर्द्धर्मकृत्यं च भूभुजाम्
मण्डलादिकनिर्द्देंशो रत्नदीक्षाविधिस्ततः
धनुर्विद्या ततः प्रोक्ता व्यवहारप्रदर्शनम्
गजादीनां चिकित्सा च तेषां शान्तिस्ततः परम्
शान्तयश्चापि विविधाश्छन्दः शास्त्रमतः परम्
सिद्धशब्दानुशिष्टिश्चकोशः सर्गादिवर्गकः
वर्णनं नरकाणां च योगाश्त्रमतः परम्
एतदाग्नेयकं विप्र पुराणं परिकीर्तितम्
तिलधेनु युतं चापि मार्गशीर्ष्यां विधानतः
एषानुक्रमणी प्रोक्ता तवाग्नेयस्य मुक्तिदा
शृण्वतां पठतां चैव नृणां चेह परत्र च
भविष्यं भवतः सर्वलोकाभीष्टप्रदायकम्
सृष्ट्यर्थं तत्र संजातो मनुः स्वार्यभुवः पुरा
अहं तस्मै तदा प्रीतः प्रावोचं धर्मसंहिताम्
तदा तां संहितां सर्वां पञ्चधा व्यभजन्मुनिः
तत्रादिमं स्मृतं पर्वं ब्राह्मं यत्रास्त्युपक्रमः
आदित्यचरितप्रायः सर्वाख्यानसमन्वितः