पुराणं सुमहत्पुण्यं पठतां शृण्वतां सदा
मार्कण्डेयपुराणं तन्नवसाहस्रमीरितम्
पक्षिणां धर्मसंज्ञानं ततो जन्मनिरूपणम्
तीर्थयात्रा बलस्याथ द्रौपदेयकथानकम्
पितापुत्रसमाख्यानं दत्तात्रेयकथ ततः
मदालकसाकथा प्रोक्ता ह्यलर्कचरितान्विता
कल्पान्तकालनिर्देशो यक्षसृष्टिनिरूपणम्
मनूनां च कथा नानाकीर्तिताः पापहारिकाः
तत्पश्चात्प्रणवोत्पत्तिस्त्रयीतेजः समुद्भवा
वैवस्वतान्वयश्चापि वत्सप्रीश्चरितं ततः
अविक्षिच्चरितं चैव किमिच्छव्रतकीर्त्तनम्
नलस्य चरितं पश्चाद्रामचन्द्रस्य सत्कथा
पुरुरवः कथा पुण्या नहुषस्य कथाद्भुता
श्रीकृष्णबालचरितं माथुरं चरितं ततः
ततः सांख्यसमुद्देशः प्रपञ्चासत्त्वकीर्तनम्
यः शृणोति नरो भक्त्या पुराणमिदमादरात्
यस्तु व्याकुरुते चैतच्छैवं स लभते पदम्
कार्तिक्यां द्विजवर्याय स लभेन्द्ब्रह्मणः पदम्
मार्कण्डेयपुराणस्य स लभेद्वाञ्छितं फलम्
ईशानकल्पवृत्तान्तं वसिष्ठायानलो ऽब्रवीत्
पठतां शृण्वतां चैव सर्वपापहरं नृणाम्
सृष्टिप्रकरणं चाथ विष्णुपूजादिकं ततः
सर्वदीक्षाविधानं च अभिषेकनिरूपणम्
पवित्रारोपणविधिर्देवालयविधिस्ततः
न्यासादीनां विधानं च प्रतिष्ठापूर्तकं ततः
प्रतिष्ठा सर्वदेवानां ब्रह्मण्डस्य निरूपणम्
ऊर्द्ध्वाधोलोकरचना ज्योतिश्चक्रनिरूपणम्
षट्कर्म च ततः प्रोक्तं मन्त्रमन्त्रौषधीगणः
कोटिहोमविधानं च मन्वन्तरनिरूपणम्
ग्रहयज्ञस्ततः प्रोक्तोवैदिकस्मार्तकर्म च