कृष्णस्य बालचरितं कौमारं च व्रजस्थितिः
भूभारहरणं चात्र निरोधे दशमः स्मृतः
यदोश्च दत्तात्रेयेण श्रीकृष्णोनोद्धवस्य च
भविष्यकलिनिर्द्देशो मोक्षो राज्ञः परीक्षितः
सौरी विभूतिरुदिता सात्वती च ततः परम्
इत्येवं कथितं वत्स श्रीमद्भागवतं तव
साहाय्यकर्तुर्गदितं भक्तिभुक्तिविमुक्तिदम्
देयं भागवतायेदं द्विजायप्रीतिपूर्वकम्
स पुराणश्रवणजं प्राप्नोति फलमुत्तमम्
पञ्चविंशतिसाहस्रं बृहत्कल्पकथाश्रयम्
नानाधर्मकथाः पुण्याः प्रवृत्ते समुदाहृताः
द्वितीये मोक्षधर्माख्ये मोक्षोपायनिरूपणम्
सनन्दनेन गदिता नारदाय महात्मने
मन्त्राणां शोधनं दीक्षामन्त्रोद्धारश्च पूजनम्
गणेशसूर्यविष्णूनां शिवशक्त्योरनुक्रमात्
पुराणलक्षणं चैव प्रमाणं दानमेव च
चैत्रादिसर्वमासेषु तिथीनाञ्चपृथक्पृथक्
सनातनेन मुनिना नारदाय चतुर्थके
अस्योत्तरे विभागे तु प्रश्न एकादशीव्रते
रुक्माङ्गदकथा पुण्यामोहिन्युत्पत्तिकर्म च
गङ्गाकथा पुण्यतमा गयायात्रानुकीर्तनम्
यात्राविधानं क्षेत्रस्य बह्वाख्यानसमन्वितम्
हरिद्वारस्य चाख्यानं कामोदाख्यानकं तथा
प्रभासस्य च माहात्म्यं पुष्कराख्यानकं ततः
गोकर्णक्षेत्रमाहात्म्यं लक्ष्मणाख्यानकं तथा
अवन्त्याश्चैव माहात्म्यं मधुरायास्ततः परम्
मोहिनीचरितं पश्चादेवं पश्चादेवं वै नारदीयकम्
स याति ब्रह्मणो धाम नात्र कार्या विचारणा
प्रदद्याद्दिजर्ंयाय संलभेन्मोक्षमेव च
शृणुयद्वैकचित्तेन सो ऽपि स्वर्गगतिं लभेत्