द्वितीयो ऽयं समुदितः स्कन्धो व्यासेन धीमता
सृष्टिप्रकरणं पश्चाद्बह्मणः परमात्मनः
सत्याश्चरितमादौ तु ध्रुवस्य चरितं ततः
इत्येष तुर्यो गदितो विसर्गे स्कन्ध उत्तमः
ब्रह्माण्डान्तर्गतानां च लोकानां वर्णनं ततः
अजामिलस्य चरितं दक्षसृष्टिनिरूपणम्
षष्ठो ऽयमुदितः स्कन्धोव्यासेन परिपोषणे
सप्तमो गदितो वत्स वासनाकर्मकीर्तने
समुद्रमथनं चैव बलिवैभवबन्धनम्
सूर्यवंशसमाख्यानं सोमवंशनिरूपणम्
कृष्णस्य बालचरितं कौमारं च व्रजस्थितिः
भूभारहरणं चात्र निरोधे दशमः स्मृतः
यदोश्च दत्तात्रेयेण श्रीकृष्णोनोद्धवस्य च
भविष्यकलिनिर्द्देशो मोक्षो राज्ञः परीक्षितः
सौरी विभूतिरुदिता सात्वती च ततः परम्
इत्येवं कथितं वत्स श्रीमद्भागवतं तव
साहाय्यकर्तुर्गदितं भक्तिभुक्तिविमुक्तिदम्
देयं भागवतायेदं द्विजायप्रीतिपूर्वकम्
स पुराणश्रवणजं प्राप्नोति फलमुत्तमम्
पञ्चविंशतिसाहस्रं बृहत्कल्पकथाश्रयम्
नानाधर्मकथाः पुण्याः प्रवृत्ते समुदाहृताः
द्वितीये मोक्षधर्माख्ये मोक्षोपायनिरूपणम्
सनन्दनेन गदिता नारदाय महात्मने
मन्त्राणां शोधनं दीक्षामन्त्रोद्धारश्च पूजनम्
गणेशसूर्यविष्णूनां शिवशक्त्योरनुक्रमात्
पुराणलक्षणं चैव प्रमाणं दानमेव च
चैत्रादिसर्वमासेषु तिथीनाञ्चपृथक्पृथक्
सनातनेन मुनिना नारदाय चतुर्थके
अस्योत्तरे विभागे तु प्रश्न एकादशीव्रते
रुक्माङ्गदकथा पुण्यामोहिन्युत्पत्तिकर्म च