बुधाष्टम्यां बुधाषाढे पुण्ये विने तथा
घृतेन मधुना वापि दध्ना वा तत्फलं शृणु
वसेष्टिष्णुपुरे सार्दं त्रिसत्पपुरुषैर्मृप
मोक्षमाप्रोति नृपते पुनरावृत्तिदुर्लभम्
शिवं संस्त्राप्य दुग्धेन शिवसायुज्यमान्पुयात्
अष्टम्यामिन्दुवारे वा शिवसायुज्यमश्नुते
घृतेन मधुना स्त्राप्य शिवां तत्साम्यतां व्रजेत्
स याति तत्तत्सारुप्यं पितृभिः सह सत्पभिः
शिवलोके वसेत्कल्पं ससत्पपुरुषैः सह
क्षीरेण वा महाभाग तत्फलं शृणु मद्गिरा
कोटि संख्यं समुद्धृकत्य स्वकुलं शिवतां व्रजेत्
जन्मायुतार्जितैः पापैर्मुक्तो व्रजति तत्पदम्
स याति विष्णुभवनं कुलकोटिसमन्वितः
संपूज्य पापनिर्मुक्तो वसेद्भिष्णुपुरे युगम्
समभ्यर्च्य महाराज तत्तत्सालोक्यमान्पुयात्
दत्त्वा धूपे नरो भक्त्या सर्वपापैः प्रमुच्यते
दत्त्वा नरः सर्वकामान्मंप्राप्नोति नृपोत्तम
स मुक्तः सर्वपापेभ्यो गङ्गास्नानफलं लभेत्
दीपं तत्त्वा महाविष्णोः शिवस्यापि फलं शृणु
तत्तत्सालोक्यमाप्नोति त्रिःभत्पपुरुषान्वितः
दत्त्वा तत्तत्पदं याति चत्वारिशत्कुलान्वितः
स याति विष्णुभवनं पुनरावृत्तिदुर्लभम्
अन्नतोयसमन्दानं न भूतं न भविष्यति
सर्वदानफलं यस्मादन्नदस्य नृपोत्तम
न तस्य पुनरावृत्तिरिति शास्त्रेषु निश्चितम्
अन्नदानान्नृपश्रेष्ठ निर्दिष्टं श्रह्मवादिभिः
जलदो मुच्यते तेभ्य इत्याह कमलोद्भवः
तस्मादन्नप्रदो ज्ञेयः प्राणदः पृथिवीपते
तस्मादन्नसमं दानं नास्ति भूपाल भूपले
नपकं ते न पशअयन्ति तस्मादन्नप्रदो वरः