एतद्विष्णुपुराणं वै सर्वशास्त्रार्थसंग्रहम्
यो नरः पठते भक्त्या यः शृणोति च सादरम्
तल्लिखित्वा च यो दद्यादाषाढ्यां घृतधेनुना
स याति वैष्णवं धाम विमानेनार्कवर्चसा
कथयेच्छृणुयाद्वापि स पुराणफलं लभेत्
यस्मिञ्च्छ्रुते लभद्धाम रुद्रस्य परमात्मनः
श्वेतकल्पप्रसंगेन धर्मानत्राह मारुतः
सर्गादिलक्षणं यत्र प्रोक्तं विप्र सविस्तरम्
गयासुरस्य हननं विस्तराद्यत्र कीर्तितम्
दानधर्मा राजधर्मा विस्तरेणोदिता स्तथा
व्रतादीनां च पूर्वो ऽयं विभागः समुदाहृतः
शिवस्य संहितोक्ता वै विस्तरेण मुनीश्वर
स तु सर्वात्मना यस्यास्तीरे तिष्ठति संततम्
इदं ब्रह्म निराकारं कैवल्यं नर्मदाजलम्
शक्तिः कापि सरिदृपा रेवेयमवतारिता
वसंति याम्यतीरे ये लोकं ते यान्ति वैष्णवम्
संगमाः पञ्च च त्रिंशन्नदीनां पापनाशनी
पञ्चत्रिंशत्तमः प्रोक्तो रेवासागरसगमः
चतुःशतानि तीर्थानि प्रसिद्धानि च संति हि
संति चान्यानि रेवायास्तीरयुग्मे पदे पदे
नर्मदाचरितं यत्र वायुना परिकीर्तितम्
श्रावण्यां यो ददेद्भक्त्या ब्राह्मणाय कुटुंबिने
यः श्रावयेद्वा शृणुयाद्वायवीयमिदं नरः
यश्चानुक्रमणीमेतां शृणोति श्रावयेत्तथा
सो ऽपि सर्वपुराणस्य फलं श्रवणजं लभेत्
श्रीमद्भागवतं नाम पुराणं ब्रह्मसंमितम्
सुरपादपरूपो ऽयं स्कन्धैर्द्वादशभिर्युतः
तत्र तु प्रथमस्कन्धे सूतर्षीणां समागमे
परीक्षितमुपाख्यानमितीदं समुदाहृतम्
ब्रह्मनारदसंवादे देवताचरितामृतम्