सो ऽपि पद्मपुराणस्य लभेच्छ्रवणजं फलम्
त्रयोविंशतिसहस्रं सर्वपातकनाशनम्
मैत्रेयायादिमे तत्र पुराणस्यावतारिकाम्
समुद्रमथनाख्यानं दक्षादीनां ततो ऽन्वयः
प्रचेतसं तथाख्यानं प्रह्लादस्य कथानकम्
प्रियव्रतान्वयाख्याख्यानं द्वीपवर्षनिरूपणम्
सूर्यादिवारकथनं पृथग्लक्षणसंयुतम्
निदाघऋभुसंवादो द्वितीयोंश उदाहृतः
नरकोद्धारकं कर्म गदितं च ततः परम्
श्राद्धकल्पं तथोद्दिष्टं वर्णाश्रमनिबन्धनम्
तृतीयोंऽशो ऽयमुदितः सर्वपापप्रणाशनः
चतुर्थेंऽशेमुनिश्रेष्ठ नानाराजकथान्वितम्
पूतनादिवधो बाल्ये कौमारे ऽघादिहिंसनम्
ततस्तु यौवने प्रोक्ता लीला द्वारवतीभवा
यत्र स्थित्वाजगन्नाथः कृष्णो योगेश्वरेश्वरः
अष्टावक्रीयमाख्यानं पञ्चमोंऽश इतीरितः
ब्रह्मज्ञानसमुद्देशः खाण्डिक्यस्य निरूपितः
अतः परं तु सूतेन शौनकादिभिरादरात्
नानाधर्मकथाः पुण्या व्रतानि नियमा यमाः
वंशाख्यानं प्रकरणात् स्तोत्राणि मनवस्तथा
एतद्विष्णुपुराणं वै सर्वशास्त्रार्थसंग्रहम्
यो नरः पठते भक्त्या यः शृणोति च सादरम्
तल्लिखित्वा च यो दद्यादाषाढ्यां घृतधेनुना
स याति वैष्णवं धाम विमानेनार्कवर्चसा
कथयेच्छृणुयाद्वापि स पुराणफलं लभेत्
यस्मिञ्च्छ्रुते लभद्धाम रुद्रस्य परमात्मनः
श्वेतकल्पप्रसंगेन धर्मानत्राह मारुतः
सर्गादिलक्षणं यत्र प्रोक्तं विप्र सविस्तरम्
गयासुरस्य हननं विस्तराद्यत्र कीर्तितम्
दानधर्मा राजधर्मा विस्तरेणोदिता स्तथा