विष्णुधर्मसमाख्यानं विष्णुनामसहस्रकम्
जम्बृद्वीपस्य तीर्थानां माहात्म्यं पापनाशनम्
देवशर्मादिकाख्यानं गीतामाहात्म्यवर्णनम्
इन्द्रप्रस्थस्य माहात्म्यं बहुतीर्थकथान्वितम्
अवतारकथाः पुण्या मत्स्यादीनामतः परम्
परीक्षणं च भृगुणा श्रीविष्णोर्वैभवस्य च
पञ्चखण्डयुतं पाद्मं यः शृणोति नरोत्तमः
एतद्वै पञ्चपञ्चाशत्सहस्रं पद्मसंज्ञकम्
यः प्रदद्यात्सुसत्कृत्य पुराणज्ञाय मानद
पद्मानुक्रमणीमेतां यः पठेच्छृणुयात्तथा
सो ऽपि पद्मपुराणस्य लभेच्छ्रवणजं फलम्
त्रयोविंशतिसहस्रं सर्वपातकनाशनम्
मैत्रेयायादिमे तत्र पुराणस्यावतारिकाम्
समुद्रमथनाख्यानं दक्षादीनां ततो ऽन्वयः
प्रचेतसं तथाख्यानं प्रह्लादस्य कथानकम्
प्रियव्रतान्वयाख्याख्यानं द्वीपवर्षनिरूपणम्
सूर्यादिवारकथनं पृथग्लक्षणसंयुतम्
निदाघऋभुसंवादो द्वितीयोंश उदाहृतः
नरकोद्धारकं कर्म गदितं च ततः परम्
श्राद्धकल्पं तथोद्दिष्टं वर्णाश्रमनिबन्धनम्
तृतीयोंऽशो ऽयमुदितः सर्वपापप्रणाशनः
चतुर्थेंऽशेमुनिश्रेष्ठ नानाराजकथान्वितम्
पूतनादिवधो बाल्ये कौमारे ऽघादिहिंसनम्
ततस्तु यौवने प्रोक्ता लीला द्वारवतीभवा
यत्र स्थित्वाजगन्नाथः कृष्णो योगेश्वरेश्वरः
अष्टावक्रीयमाख्यानं पञ्चमोंऽश इतीरितः
ब्रह्मज्ञानसमुद्देशः खाण्डिक्यस्य निरूपितः
अतः परं तु सूतेन शौनकादिभिरादरात्
नानाधर्मकथाः पुण्या व्रतानि नियमा यमाः
वंशाख्यानं प्रकरणात् स्तोत्राणि मनवस्तथा