ययातिचरितं चैव गुरुतीर्थनिरूपणम्
कथा ह्यशोकसुंदर्याहुण्डदैत्यवधान्विता
कुञ्जलस्य च संवादश्च्यवनेन महात्मना
सूतशौनकसंवादं भूमिखण्डमिदं स्मृतम्
सभूमिलोकसंस्थानं तीर्थाख्यानं ततः परम्
कुरुक्षेत्रादितीर्थानां कथा पुण्या प्रकीर्तिता
गयायाश्चैव माहात्म्यं प्रयागस्य च पुण्यकम्
व्यासजमिनिसंवादः पुण्यकर्मकथान्वितः
ऊर्ज्जपञ्चाहमाहाम्यं स्तोत्रं सर्वापराधनुत्
रामाश्वमेधं प्रथमं रामराज्याभिषेचनम्
अश्वमेधोपदेशश्च हयचर्या ततः परम्
वृन्दावनस्य माहात्म्यं सर्वपापप्रणाशनम्
माधवस्नानमाहात्म्यं स्नानदानार्चने फलम्
संवादो राजदूतानां कृष्णस्तोत्रनिरूपणम्
भस्ममाहात्म्यमतुलं शिवमाहात्म्यमुत्तमम्
गौतमाख्यानकं चैव शिवगीता ततः स्मृता
पातालखण्डमेतद्धि शृण्वतां पठतां सदा
पर्वताख्यानकं पूर्वं गौर्थै प्रोक्तं शिवेन वै
सगरस्य कथा पुण्या ततः परमुदीरितम्
अन्नादि दानमाहात्म्यं तन्महाद्वादशीव्रतम्
विष्णुधर्मसमाख्यानं विष्णुनामसहस्रकम्
जम्बृद्वीपस्य तीर्थानां माहात्म्यं पापनाशनम्
देवशर्मादिकाख्यानं गीतामाहात्म्यवर्णनम्
इन्द्रप्रस्थस्य माहात्म्यं बहुतीर्थकथान्वितम्
अवतारकथाः पुण्या मत्स्यादीनामतः परम्
परीक्षणं च भृगुणा श्रीविष्णोर्वैभवस्य च
पञ्चखण्डयुतं पाद्मं यः शृणोति नरोत्तमः
एतद्वै पञ्चपञ्चाशत्सहस्रं पद्मसंज्ञकम्
यः प्रदद्यात्सुसत्कृत्य पुराणज्ञाय मानद
पद्मानुक्रमणीमेतां यः पठेच्छृणुयात्तथा