मात्स्यं च गारुडं तद्वद्ब्रह्माण्डाख्यमिति त्रिषट्
प्रवक्ष्यामि समासेन निशामय समाहितः
व्यासेन वेदविदुषा समाख्यातं महात्मना
नानाख्यानेतिहासाढ्यं दशसाहस्रमुच्यते
प्रजापतीनां च तथा दक्षादीनां मुनीश्वर
वंशानुकीर्तनं पुण्यं महापातकनाशनम्
श्रीमतो रामचन्द्रस्य चतुर्व्यूहावतारिणः
कृष्णस्य जगदीशस्य चरितं कल्मषापहम्
वर्णनं यत्र पातालस्वर्गाणां च प्रदृश्यते
पार्वत्याश्च तथा जन्म विवाहश्च निगद्यते
पूर्वभागो ऽयमुदितः पुराणस्यास्य नारद
विस्तरेण समाख्यातं तीर्थयात्राविधानतः
वर्णनं यमलोकस्य पितृश्राद्धविधिस्तथा
विष्णुधर्मयुगाख्यानं प्रलयस्य च वर्णनम्
ब्रह्मवादसमुद्देशः पुराणस्य प्रशंसनम्
वर्णितं सर्वपापघ्नं सर्वसौख्यप्रदायकम्
लिखित्वेतत्पुराणं यो वैशाख्यां हेमसंयुतम्
पौराणिकाय संपूज्य वस्त्रभोज्यविभूषणैः
यः पठेच्छृणुयाद्वापि ब्राह्मानुक्रमणीं द्विज
शृणोति यः पुराणं तु ब्रह्मं सर्वं जितेन्द्रियः
तत्सर्वं लभते वत्स पुराणस्यास्य कीर्तनात्
महत्पुण्यप्रदं नॄणां शृण्वतां पठतां मुदा
तथेदं पञ्चभिः खण्डैरुदितं पापनाशनम्
नानाख्यानेतिहासाद्यैर्यत्रोक्तो धर्मविस्तरः
ब्रह्मयज्ञविधानं च वेदपाठादिलक्षणम्
विवाहः शैलजायाश्चतारकाख्यानकं महत्
कालकेयादिदैत्यानां वधो यत्र पृथक्पृथक्
तत्सृष्टिखण्डमुद्दिष्टं व्यासेन सुमहात्मना
सुव्रतस्य कथा पश्चाद्वृत्रस्य च वधस्तथा
सुकलाख्यानकं चैव धर्माख्यानं ततः परम्