पुराणानां विभागं मे साकल्ये नानुकीर्तय
यस्मिञ् श्रुते श्रुतं सर्वं ज्ञातं कृते कृतम्
कियन्ति च पुराणानि कियत्संख्यानि मानतः
चातुर्वर्ण्याश्रया नानाव्रतादीनां कथास्तथा
त्वत्तो ऽधिको न चान्यो ऽस्ति पुराणाख्यानवित्प्रभो
ततः सनातनो विप्राः श्रुत्वा नारदभाषितम्
साधु साधु मुनिश्रेष्ठ सर्वलोकोपकारिका
तुभ्यं समभिधास्यामि यत्प्रोक्तं ब्रह्मणा पुरा
एकदा ब्रह्मणः पुत्रो मरीचिर्नाम विश्रुतः
उपसृत्य स्वपितरं ब्रह्मणं लोकभावनम्
पुराणाख्यानममलं यत्त्वं पृच्छसि मानद
सर्वज्ञ सर्वकल्याण सर्वाध्यक्ष नमो ऽस्तु ते
लक्षणं च प्रमाणं च प्रमाणं चं वक्तारं पृच्छकं तथा
यस्मिञ्ज्ञाते भवेज्ज्ञातं वाङ्मयं सचराचरम्
चतुर्वर्गस्य बीजं च शतकोटिप्रविस्तरम्
कालेनाग्रहणं दृष्ट्वा पुरामस्य महामतिः
चतुर्लक्षप्रमाणेन द्वापरे द्वापरे सदा
अद्यापि देवलोके तु शतकोटिप्रविस्तरम्
ब्राह्मं पाद्मं वैष्णवं च वायवीयं तथैव च
आग्नेयं च भविष्यं च ब्रह्मवैवर्त्तलिङ्गके
मात्स्यं च गारुडं तद्वद्ब्रह्माण्डाख्यमिति त्रिषट्
प्रवक्ष्यामि समासेन निशामय समाहितः
व्यासेन वेदविदुषा समाख्यातं महात्मना
नानाख्यानेतिहासाढ्यं दशसाहस्रमुच्यते
प्रजापतीनां च तथा दक्षादीनां मुनीश्वर
वंशानुकीर्तनं पुण्यं महापातकनाशनम्
श्रीमतो रामचन्द्रस्य चतुर्व्यूहावतारिणः
कृष्णस्य जगदीशस्य चरितं कल्मषापहम्
वर्णनं यत्र पातालस्वर्गाणां च प्रदृश्यते
पार्वत्याश्च तथा जन्म विवाहश्च निगद्यते