त एव साधनीयाः स्युश्चतुर्वर्गफलाप्तये
शाक्ताः सौराश्च गाणेशाः शैवाः प्रोक्ताः शुभावहाः
देवताराधनं भक्त्या किं भूयः श्रोतुमिच्छसि
पुनरप्याह सुप्रीतो जिज्ञासुः श्रेय उत्तमम्
महातन्त्रं त्वया प्रोक्तं सर्वतन्त्रोत्तमोत्तमम्
तत्सर्वं मे समाचक्ष्व सर्वज्ञस्त्वं यतो मतः
पुराणाख्यानसंप्रश्नं कुमारः प्रत्युवाच ह
नानाकथासमायुक्तमद्भुतं बहुविस्तरम्
न वेद तस्मात्पृच्छ त्वं बहुकल्पविदां वरम्
प्रणम्य विनयोपेतः सनातनमथाब्रवीत्
पुराणानां विभागं मे साकल्ये नानुकीर्तय
यस्मिञ् श्रुते श्रुतं सर्वं ज्ञातं कृते कृतम्
कियन्ति च पुराणानि कियत्संख्यानि मानतः
चातुर्वर्ण्याश्रया नानाव्रतादीनां कथास्तथा
त्वत्तो ऽधिको न चान्यो ऽस्ति पुराणाख्यानवित्प्रभो
ततः सनातनो विप्राः श्रुत्वा नारदभाषितम्
साधु साधु मुनिश्रेष्ठ सर्वलोकोपकारिका
तुभ्यं समभिधास्यामि यत्प्रोक्तं ब्रह्मणा पुरा
एकदा ब्रह्मणः पुत्रो मरीचिर्नाम विश्रुतः
उपसृत्य स्वपितरं ब्रह्मणं लोकभावनम्
पुराणाख्यानममलं यत्त्वं पृच्छसि मानद
सर्वज्ञ सर्वकल्याण सर्वाध्यक्ष नमो ऽस्तु ते
लक्षणं च प्रमाणं च प्रमाणं चं वक्तारं पृच्छकं तथा
यस्मिञ्ज्ञाते भवेज्ज्ञातं वाङ्मयं सचराचरम्
चतुर्वर्गस्य बीजं च शतकोटिप्रविस्तरम्
कालेनाग्रहणं दृष्ट्वा पुरामस्य महामतिः
चतुर्लक्षप्रमाणेन द्वापरे द्वापरे सदा
अद्यापि देवलोके तु शतकोटिप्रविस्तरम्
ब्राह्मं पाद्मं वैष्णवं च वायवीयं तथैव च
आग्नेयं च भविष्यं च ब्रह्मवैवर्त्तलिङ्गके