पिङ्गोर्ध्वकेशान्दधतं कपालं च गदां स्मरेत्
चरुणा घृतसिक्तेन ततः क्षेत्रे समर्चयेत्
तस्मै सपरिवाराय बलिमेतेन निर्हरेत्
भञ्जयद्वितयं भूयो नर्तयद्वितयं पुनः
क्षेत्रपालबलिं गृह्णद्वयं पावकसुन्दरी
सोपदेशं बृहत्पिण्डे कृत्वा रात्रिषु साधकः
बलिनानेन सन्तुष्टः क्षेत्रपालः प्रयच्छति
उद्धरेद्बटुकं ङेंतमापदुद्धारणं तथा
शक्तिरुद्धो ध्रुवादिश्च द्वाविंशत्यक्षरो मनुः
बालं स्फटिकसंकाशं तल्लोललसिताननम्
सुप्रसन्नं स्मरेद्धक्त्या भक्तानामभयङ्करम्
तद्दशांशं प्रजुहुयान्त्तिलैर्मधुरसंयुतैः
षट्कोणान्तस्त्रिकोणस्थव्योमपङ्कजसंयुते
भक्षयस्व गणैः सार्द्धं सारमेयसमन्वितः
अनेन बलिना हृष्टो बटुकः परसैन्यकम्
अङ्कशो वह्निशिखरो लान्तदान्त इतीरितः
अस्य त्रितो मुनिः प्रोक्तश्छन्दो ऽनुष्टुबुदाहृतम्
हृदयं दीप्तफट् प्रोक्तं ज्वलफट् शिर ईरितम्
हलफट् नेत्रमाख्यातं सर्वज्वानिनिफट् परम्
चण्डेश्वरं रक्ततनुन्त्र्यक्षं रक्तांबरावृतम्
वर्णलक्षं जपेन्मन्त्रं होमं कुर्याद्दशांशतः
पञ्चाक्षरोदिते पीठे मूर्तिं मूलेन कल्पयेत्
हृदयं मनुराख्यातश्चण्डेशस्य प्रपूजने
शैवमन्त्रेषु निष्णातश्चण्डेश्वरमनुं जपेत्
शृणु नारद वक्ष्यामि दिव्यं माहेश्वरं स्तवम्
यस्य पाठेन पूजायां सिद्ध्यन्ति मनवो ऽखिलाः
सर्वभूतान्तरस्थाय शङ्कराय नमोनमः
अतीन्द्रियाय महसे शाश्वताय नमोनमः
भवाय भवसंभूतदुःखहन्त्रे नमोनमः
चतुर्वर्गवदान्याय सर्वज्ञाय नमोनमः