भूयो मण्डलमध्ये स्यात्कटयुग्मं ततः परम्
आवेशययुगं पश्चाञ्चण्डासिपदमीरयेत्
खड्गरावणमन्त्रो ऽयं सप्तत्यूर्द्धशताक्षरः
सिद्धमन्त्रो ऽयमुदितो जपादेव प्रसिद्ध्यति
माया स्फुरद्वयं भूयः प्रस्फुरद्वितयं पुनः
एकपञ्चाशदर्णो ऽयमघोरास्त्रं महामनुः
अघोररुद्रः संदिष्टो देवता मन्त्रनायकः
शिखा दशभिराख्याता नवभिः कवचं मतम्
मूर्ध्नि नेत्रास्यकण्ठेषु हृन्नाभ्यामूरुषु क्रमात्
पञ्चषट्काष्टवेदाङ्गद्विव्द्यब्धिरसलोचनैः
नानाशस्त्रधरं ध्यायेनदघोराख्यं सदाशिवम्
तारो वान्तो धरासंस्थो वामनेत्रेन्दुभूषितः
मनुः पाशुपतास्त्राख्यो ग्रहक्षुद्रनिवारणः
मध्याह्नार्कप्रभं भीमं त्र्यक्षं पन्नगभूषणम्
वर्णलक्षं जपेन्मन्त्रं जुहुयात्तद्दशांशतः
शैवे पीठे यजेदङ्गमातृलोकेश्वरायुधैः
सद्यः स मुञ्चति क्रन्दान्महामन्त्रप्रभावतः
जयेत्क्षणेन निखिलाञ्छत्रून्पार्थ इवापरः
वर्णान्तिमो बिन्दुयुतः क्षेत्रपालाय हृन्मनुः
षड्दीर्घयुक्तबीजेन षडङ्गं न्यस्य चिन्तयेत्
पिङ्गोर्ध्वकेशान्दधतं कपालं च गदां स्मरेत्
चरुणा घृतसिक्तेन ततः क्षेत्रे समर्चयेत्
तस्मै सपरिवाराय बलिमेतेन निर्हरेत्
भञ्जयद्वितयं भूयो नर्तयद्वितयं पुनः
क्षेत्रपालबलिं गृह्णद्वयं पावकसुन्दरी
सोपदेशं बृहत्पिण्डे कृत्वा रात्रिषु साधकः
बलिनानेन सन्तुष्टः क्षेत्रपालः प्रयच्छति
उद्धरेद्बटुकं ङेंतमापदुद्धारणं तथा
शक्तिरुद्धो ध्रुवादिश्च द्वाविंशत्यक्षरो मनुः
बालं स्फटिकसंकाशं तल्लोललसिताननम्