तावन्ति ब्रह्महत्यादिपातकानि हतानि च
क्षीरोदवासिना सार्द्धं वसेदाचन्द्रतारकम्
स याति ब्रह्मसदने कुलत्रितयतसंयुतः
स वसेद्विष्णुभवने यावदाभूतसंप्लवम्
सो ऽप्येकविंशतिकुलैर्मोदते विष्णुमन्दिरे
न तस्य पुनरावृत्तिर्विष्णुलोकान्नरेश्वर
कुलायुतयुतः सो ऽपि मोदते वैष्णवे पदे
कुलायुतायुतयुतः सो ऽपि विष्णुपुरे वसेत्
कुलकोटियुतो राजन्सायुज्यं लभते हरेः
विष्णोः सायुज्यकं तस्य भवेत्युलशतायुतैः
नालिकेरोदकैर्विष्णुं स्नापयेत्तत्फलं शृणु
शतद्वयकुलैर्युक्तो मोदते विष्णुना सह
केशवं लक्षपितृभिः सार्द्धं विष्णुपदं व्रजेत्
स्नापयित्वा हरिं भक्त्या वैष्णवं पदमान्पुयात्
सर्वपापविनिर्मुक्तो विष्णुना सह मोदते
स वसेद्विष्णुसदने त्रिसत्पपुरुषैः सह
शुक्लपक्षे चतुर्द्दश्यामष्टम्यां पूर्णिमादिने
सोमसूर्योपरागे च मन्वादिषुयुगादिषु
तथैव शनिरो हिण्यां भौमाश्विन्यां तथैव च
तथा बुधानुराधायां श्रवणार्के तथैव च
बुधाष्टम्यां बुधाषाढे पुण्ये विने तथा
घृतेन मधुना वापि दध्ना वा तत्फलं शृणु
वसेष्टिष्णुपुरे सार्दं त्रिसत्पपुरुषैर्मृप
मोक्षमाप्रोति नृपते पुनरावृत्तिदुर्लभम्
शिवं संस्त्राप्य दुग्धेन शिवसायुज्यमान्पुयात्
अष्टम्यामिन्दुवारे वा शिवसायुज्यमश्नुते
घृतेन मधुना स्त्राप्य शिवां तत्साम्यतां व्रजेत्
स याति तत्तत्सारुप्यं पितृभिः सह सत्पभिः
शिवलोके वसेत्कल्पं ससत्पपुरुषैः सह
क्षीरेण वा महाभाग तत्फलं शृणु मद्गिरा