कालकूटपदस्यान्ते विषभक्षणङेयुतम्
स्वाहान्तमस्त्रमेतानि पञ्चागानि मनोर्विदुः
बालार्कायुतवर्चस्कं जटाजूटेन्दुशोभितम्
खट्वाङ्गं दधतं दोर्भिस्त्रिनेत्रं चिन्तयेद्धरम्
हविषा जुहुयात्सम्यक्संस्कृते हव्यवाहने
मृत्युं जयविधानेन विषद्वयविनाशनम्
चिन्तामणिरिति ख्यातं बीजं सर्वसमृद्धिदम्
अर्द्धनारीश्वरः प्रोक्तो देवता जगतां पतिः
त्रिनेत्रं नीलमणिभं शूलपाशं कपालकम्
बालेन्दुबद्धमुकुटमर्द्धनारीश्वरं स्मरेत्
तिलैर्हुनेद्यजेत्पीठे शैवेङ्गावरणैः सह
प्रासादाद्यं जपेन्मन्त्रमयुतं रोगशान्तये
चन्द्रबिंबस्थितं मूर्ध्नि ध्यातं क्ष्वेडगदापहम्
रेफआदिव्यञ्जनोल्लासिषट्कोणाभिवृतं बहिः
पीडिताङ्गे स्मृतं तत्तत्पीडां शमयति ध्रुवम्
तारो नमो भूतपदं ततो ऽधिपतये ध्रुवम्
विहरद्वितयं पश्चान्नरीनृत्ययुगं पृथक्
घण्टाकपालमालादिधरायेति पदं पुनः
शशाङ्ककृतशब्दान्ते शेखराय ततः परम्
बलयुग्मं चलायुग्ममनिवर्तकपालिने
भूयो मण्डलमध्ये स्यात्कटयुग्मं ततः परम्
आवेशययुगं पश्चाञ्चण्डासिपदमीरयेत्
खड्गरावणमन्त्रो ऽयं सप्तत्यूर्द्धशताक्षरः
सिद्धमन्त्रो ऽयमुदितो जपादेव प्रसिद्ध्यति
माया स्फुरद्वयं भूयः प्रस्फुरद्वितयं पुनः
एकपञ्चाशदर्णो ऽयमघोरास्त्रं महामनुः
अघोररुद्रः संदिष्टो देवता मन्त्रनायकः
शिखा दशभिराख्याता नवभिः कवचं मतम्
मूर्ध्नि नेत्रास्यकण्ठेषु हृन्नाभ्यामूरुषु क्रमात्
पञ्चषट्काष्टवेदाङ्गद्विव्द्यब्धिरसलोचनैः