हिमाचलतटे रम्ये सिद्धिकिन्नरसेविते
सुपुष्पितैर्लताजालैराश्लिष्टकुसुमद्रुमे
गायद्देवाङ्गनासंघे नृत्यद्बर्हि कदम्बके
परस्परविनिर्मुक्तमात्सर्यमृगसेविते
आद्यैः शुकाद्यैर्मुनिभिरजस्रसुखसेविते
वटवृक्षं महोच्छ्रायं पद्मरागफलोज्ज्लम्
नवरत्नमयाकल्पैर्लंबमानैरलङ्कृतम्
तस्य मूले सुसंकॢप्तरत्नसिंहासने शुभे
कैलासाद्रिनिभं त्र्यक्षं चन्द्राङ्कितकपर्दकम्
भद्राटके कुरङ्गाढ्यजानुस्थकरपल्लवम्
अयुतद्वयसंयुक्तगुणलक्षं जपेन्मनुम्
पञ्चाक्षरोदिते पीठे तद्विधानेन पूजयेत्
नित्यं सहस्रमष्टार्द्धं परां विन्दति वाक्छ्रियम्
दक्षिणामूर्तिंसंध्यानाच्छास्त्रव्याख्यानकृद्भवेत्
ङेयुतं दक्षिणामूर्तिं मह्यंमेधामुदीरयेत्
मुनिश्चतुर्मुखश्छन्दो गायत्री देवतोदिता
पदैर्मन्त्रभवैर्वापिध्यानाद्यं पूर्ववन्मतम्
द्वितीयं वह्निबीजस्था दीर्घा शान्तीन्दुभूषिता
नीलकण्ठात्मकः प्रोक्तो विषद्वयहरः परः
कपर्द्दिने पदयुगं शिरोमन्त्र उदाहृतः
कालकूटपदस्यान्ते विषभक्षणङेयुतम्
स्वाहान्तमस्त्रमेतानि पञ्चागानि मनोर्विदुः
बालार्कायुतवर्चस्कं जटाजूटेन्दुशोभितम्
खट्वाङ्गं दधतं दोर्भिस्त्रिनेत्रं चिन्तयेद्धरम्
हविषा जुहुयात्सम्यक्संस्कृते हव्यवाहने
मृत्युं जयविधानेन विषद्वयविनाशनम्
चिन्तामणिरिति ख्यातं बीजं सर्वसमृद्धिदम्
अर्द्धनारीश्वरः प्रोक्तो देवता जगतां पतिः
त्रिनेत्रं नीलमणिभं शूलपाशं कपालकम्
बालेन्दुबद्धमुकुटमर्द्धनारीश्वरं स्मरेत्