अमृताशकलैः शुद्धदुग्धाज्यसमभिप्लुतैः
अङ्गावरणमाराध्यपश्चाल्लोकेश्वरान्यजेत्
जपपूजादिभिः सिद्धे मन्त्रे ऽस्मिन्मुनिसत्तम
दुग्धसिक्तैः सुधाखण्डैर्हुत्वा प्रत्यहमादरात्
सुधावटतितान्पूर्वा पयः सर्पिः पयो हविः
सप्ताधिकान् द्विजान्नित्यं भोजयेन्मधुरान्वितम्
गुरुं संप्रीणयेत्पश्चाद्धनाद्यैर्देवताधिया
विमुक्तः सुचिरं जीवेच्छरदां शतमञ्जसा
असाध्यरोगे क्ष्वेडार्तौं मोहे दाहे महाभये
द्रव्यैरेतैः प्रजुहुयात्त्रिजन्मसु यथाविधि
दीर्घमायुरवाप्नोति वाञ्छितां विन्दति श्रियम्
अपमृत्युजिदेव स्यादायुरारोग्यवर्द्धनम्
समिद्वरैः कृतो होमः सर्वमृत्युगदापहः
अपामार्गसमिद्धोमः सर्वामयनिषूदनः
वटमूलपदस्यान्ते प्रवदेच्च निवासिने
रुद्राय शंभवे तारशक्तिरुद्धो ऽयमीरितः
मुनिः शुकः समुद्दिष्टश्छन्दो ऽनुष्टुप्प्रकीर्तितम्
तारशक्तियुक्तैः पूर्वं ह्रीमाद्यन्तैश्च मन्त्रजैः
मूर्ध्नि भाले दृशोः श्रोत्रे गण्डयुग्मे सनासिके
कट्यां गुह्ये पुनः पादसंधिष्वर्णान्न्यसेन्मनोः
हिमाचलतटे रम्ये सिद्धिकिन्नरसेविते
सुपुष्पितैर्लताजालैराश्लिष्टकुसुमद्रुमे
गायद्देवाङ्गनासंघे नृत्यद्बर्हि कदम्बके
परस्परविनिर्मुक्तमात्सर्यमृगसेविते
आद्यैः शुकाद्यैर्मुनिभिरजस्रसुखसेविते
वटवृक्षं महोच्छ्रायं पद्मरागफलोज्ज्लम्
नवरत्नमयाकल्पैर्लंबमानैरलङ्कृतम्
तस्य मूले सुसंकॢप्तरत्नसिंहासने शुभे
कैलासाद्रिनिभं त्र्यक्षं चन्द्राङ्कितकपर्दकम्
भद्राटके कुरङ्गाढ्यजानुस्थकरपल्लवम्