चतुर्मुखं तत्पुरुषं त्रिनेत्रं पूर्वन्तोर्ऽचयेत्
खट्वाङ्गं निशितं शूलं कपालं बिभ्रतं करैः
अघोरं त्रीक्षणं याम्ये पूजयेन्मन्त्रवित्तमः
हरिणाक्षगुणाभीतिवरहस्तं चतुर्मुखम्
कर्पूरेदुनिभं सौम्यं सद्योजातं त्रिलोचनम्
विलासिनं स्मेरवक्त्रं सौम्ये सम्यक्समर्चयेत्
विघ्नेश्वराननन्ताद्यान्पत्रेषु परितो यजेत्
इति संपूज्य देवेशं भक्त्या परमया युतः
तारो मायावियद्बिन्दुमनुस्वरसमन्वितः
पञ्चाक्षरोक्तवत्कुर्यादङ्गन्यासादिकं बुधः
दिव्यभूषाङ्गरागं च नागयज्ञोपवीतिनम्
वेदटङ्केष्मभयं ध्यायेत्सर्वेश्वरं शिवम्
पायसैर्जुहुयात्पीठेमूर्तिं संकल्प्य मूलतः
उमादिभिः समुद्दिष्टं तृतीयं लोकनायकैः
एवं प्रतिदिनं देवं पूजयेत्साधकोत्तमः
तारः स्थिरा सकर्णेन्दुर्भघृगुः सर्गसमन्वितः
ऋषैः कहोलो देव्यादिगायत्री छन्द ईरितम्
भृगुणा दीर्घयुक्तेन षडङ्गानि समाचरेत्
मुद्रापाशैणाक्षसूत्रलसत्पाणिं शशिप्रभम्
हाराद्यैर्निजकान्त्या तु ध्यायेद्विश्वविमोहनम्
अमृताशकलैः शुद्धदुग्धाज्यसमभिप्लुतैः
अङ्गावरणमाराध्यपश्चाल्लोकेश्वरान्यजेत्
जपपूजादिभिः सिद्धे मन्त्रे ऽस्मिन्मुनिसत्तम
दुग्धसिक्तैः सुधाखण्डैर्हुत्वा प्रत्यहमादरात्
सुधावटतितान्पूर्वा पयः सर्पिः पयो हविः
सप्ताधिकान् द्विजान्नित्यं भोजयेन्मधुरान्वितम्
गुरुं संप्रीणयेत्पश्चाद्धनाद्यैर्देवताधिया
विमुक्तः सुचिरं जीवेच्छरदां शतमञ्जसा
असाध्यरोगे क्ष्वेडार्तौं मोहे दाहे महाभये
द्रव्यैरेतैः प्रजुहुयात्त्रिजन्मसु यथाविधि