मृत्युर्निगदिता षष्ठी नमस्ते अस्तु तत्परम्
अष्टमी कथिता एताध्रुवाद्या नमसान्विताः
कट्यां पार्श्वद्वये वामकला न्यस्येत्त्रयोदश
स्याज्ज्येष्ठाय नमो रक्षा द्वितीया परिकीर्तिता
नमः संयमनी षष्ठी कथिता तदनन्तरम्
नमो वृद्धिस्त्वष्टमी स्याद्बलान्ते च स्थिरा कला
सर्वभूतदमनाय नमोन्ते भ्रामणी कला
मनोन्मन्यै नमः पश्चाज्ज्वरा प्रोक्ता त्रयोदशी
पाददोस्तननासासु मूर्ध्नि बाहुयुगे न्यसेत्
सद्योजातं प्रपद्यामि सिद्धिः स्यात्प्रथमा कला
भवेद्युतिस्तृतीया स्यादभवे तदनन्दरम्
मेधा स्यात्पञ्चमी प्रोक्ता कलाभूयो भवस्व माम्
उद्भवाय नमः पश्चात्सुधा स्यादष्टमी कला
अष्टात्रिंशत्कलाः प्रोक्ताः पञ्च ब्रह्मपदादिकाः
ततः समाहितो भूत्वा ध्यायेदेवं सदाशिवम्
अक्षैर्युतं ग्लौमुकुटं कोटिपूर्णेन्दुसंप्रभम्
दधानंभूषणोद्दीप्तं घण्टापाशवराभयान्
प्रसूनैः करवीरोत्थैर्जुहुयात्तहृशांशतः
आवाह्य पूजयेत्तस्यां मूर्तावावरणैः सह
ईशानं त्रीक्षणं शुभ्रमैशान्यां दिशि पूजयेत्
चतुर्मुखं तत्पुरुषं त्रिनेत्रं पूर्वन्तोर्ऽचयेत्
खट्वाङ्गं निशितं शूलं कपालं बिभ्रतं करैः
अघोरं त्रीक्षणं याम्ये पूजयेन्मन्त्रवित्तमः
हरिणाक्षगुणाभीतिवरहस्तं चतुर्मुखम्
कर्पूरेदुनिभं सौम्यं सद्योजातं त्रिलोचनम्
विलासिनं स्मेरवक्त्रं सौम्ये सम्यक्समर्चयेत्
विघ्नेश्वराननन्ताद्यान्पत्रेषु परितो यजेत्
इति संपूज्य देवेशं भक्त्या परमया युतः
तारो मायावियद्बिन्दुमनुस्वरसमन्वितः
पञ्चाक्षरोक्तवत्कुर्यादङ्गन्यासादिकं बुधः