वामदेवाह्वयं सद्योजातबीजं क्रमाद्विदुः
तत्तदङ्गुलिभिर्भूयस्तत्तदिकान्न्यसेत्
उर्द्धप्राग्दक्षिणोदीच्यपश्चिमेषु मुखेषु च
ईशानाद्या ऋचः सम्यगङ्गुलीषु यथाक्रमात्
मूर्द्धास्यहृदयांभोजगुह्यपादे तु ताः पुनः
तारपञ्चकमुच्चार्य सर्वज्ञाय हृदीरितम्
तदन्ते ब्रह्मशिःसे शिरोगं ज्वलितं ततः
वज्रिणे वज्रहस्ताय स्वतन्त्राय तनुच्छदम्
नेत्रमुक्तं श्लीपशुं हुं फडन्ते नेत्रं शक्तये
पूर्वदक्षिणपश्चात्प्राक्सौम्यमध्येषु पञ्चसु
ईशानः सर्वविद्यानां शशिनी प्रथमा कला
ब्रह्माधिपतिः शब्दान्ते ब्रह्मणो ऽधिपतिः पुनः
मरीचिः कथिता विप्र चतुर्थी च सदाशिवे
पूर्वपश्चिमयाम्योदग्वक्त्रेषु तदनन्तरम्
आद्या तत्पुरुपायेति विद्महे शान्तिरीरिता
विद्या द्वितीया कथिता तन्नो रुद्रः पदं ततः
निवृत्तिस्तत्परा सर्वा प्रणवाद्या नमोन्विता
अथोरसि कला न्यस्येदष्टौ मन्त्री यथाविधि
अथ घोरेभ्य इत्यन्ते मोहास्यात्तदनन्तरम्
घोरतरेभ्यो निद्रा स्यात्सर्वेभ्यः सर्वतत्परा
मृत्युर्निगदिता षष्ठी नमस्ते अस्तु तत्परम्
अष्टमी कथिता एताध्रुवाद्या नमसान्विताः
कट्यां पार्श्वद्वये वामकला न्यस्येत्त्रयोदश
स्याज्ज्येष्ठाय नमो रक्षा द्वितीया परिकीर्तिता
नमः संयमनी षष्ठी कथिता तदनन्तरम्
नमो वृद्धिस्त्वष्टमी स्याद्बलान्ते च स्थिरा कला
सर्वभूतदमनाय नमोन्ते भ्रामणी कला
मनोन्मन्यै नमः पश्चाज्ज्वरा प्रोक्ता त्रयोदशी
पाददोस्तननासासु मूर्ध्नि बाहुयुगे न्यसेत्
सद्योजातं प्रपद्यामि सिद्धिः स्यात्प्रथमा कला