शुद्धस्फटिकसंकाशं दिक्षु तत्पुरुषादिका
चतुर्वक्त्रसमायुक्ता यथावत्ताः प्रपूजयेत्
अङ्गानि केसरस्थानि विघ्नेशान्पन्नगान्यजेत्
एकनेत्रमेकरुद्रं त्रिमूर्तिं तदनन्तरम्
रक्तपीतसितारक्तकृष्णरक्ताञ्जनासितान्
त्रिनेत्राञ्छूलवज्रास्त्रचापहस्तान्मनोरमान्
ततो नन्दिमहाकालौ गणेशं वृषभं पुनः
स्वर्णतोयारुणश्याममुक्तेन्दुसितपाटलान्
इत्थं संपूजयेद्देवं सहस्रं नित्यशो जपेत्
द्विसहस्रं जपन् रोगान्मुच्यते नात्र संशयः
सहस्रवृद्धया प्रजपन्सर्वकामानवाप्नुयात्
उत्पातजनितान् क्लेशान्नाशयेन्नात्र संशयः
षडक्षरः शक्तिरुद्धः कथितो ऽष्टाक्षरो मनुः
अङ्गानि पूर्वमुक्तानि सौम्यमीशं विचिन्तयेत्
स्मेरास्यं स्वकरैः शूलं कंपालं वरदाभये
भुजेनाश्लिष्टदेहं तं चिन्तयेन्मनसा हृदि
जुहुयान्मान्मधुससिक्तैरारग्वधसमिद्वरैः
अङ्गावृतैर्बहिः पूज्या हृल्लेखाद्या यथापुरा
यजेत्पूर्वादिपत्रेषु वृषभाद्याननुक्रमात्
रक्ताकारं त्रिनयनं चण्डेशमथ पूजयेत्
दुर्गां प्रपूजयेत्सौम्यां त्रिनेत्रां चारुभूषणाम्
बालार्काभं शिशुं कान्तंषण्मुखं पूजयेत्ततः
परश्वधवराभीतिटङ्किनं श्यामविग्रहम्
विघ्ननायकमभ्यर्चेच्चन्द्रार्द्धकृतशेखरम्
द्विनेत्रं रक्तवस्त्राढ्यं सेनापतिमथार्चयेत्
इन्द्रादिकान्लोकपालान्स्वस्वदिक्षु समर्चयेत्
एवं यो भजते मन्त्री देवं शंभुमुमापतिम्
सांतसद्यान्तसंयुक्तो बिन्दुभूषितमस्तकः
षड्दीर्घयुक्तबीजेन षडङ्गविधिरीरितः
ईशानाद्या न्यसेन्मूर्तीरङ्गुष्ठादिषु देशिकः