विद्यायाः कुलसुन्दर्याः कर्तव्यो द्विजसत्तम
होमादिस्तद्दशांशेन प्रोक्तः प्रोक्तविधानतः
जपो नित्यपताकाया होमादिस्तद्दशांशतः
अन्यत्पूर्ववदाख्यातं विद्यासिद्ध्यै तु साधनम्
तद्दशांशक्रमेणैव होमादि समुदीरितम्
होमादिस्तद्दशांशेन प्रोक्तद्रव्यैः समीरितः
प्रोक्तेन विधिना कार्यो विद्यासिद्ध्यै मुनीश्वर
ज्ञातव्यं सर्वमेवात्र यन्त्रसाधनपूर्वकम्
यं समाराध्य मनुजो भुक्तिं मुक्तिं च विन्दति
पञ्चाक्षरो मनुः प्रोक्तस्ताराद्यो ऽयं षडक्षरः
षड्भिर्वर्णैः षडङ्गानि कुर्यान्मन्त्रेण देशिकः
तर्जनीमध्ययोरन्त्यानामिकाङ्गुष्ठके पुनः
वक्त्रहृत्पादगुह्येषु निजमूर्द्धनि ताः पुनः
मन्त्राङ्गानिन्यसेत्पश्चाज्जातियुक्तानि षट् क्रमात्
हृदि वक्त्रेंऽसयोरूर्वोः कण्ठे नाभौ द्विपार्श्वयोः
दोःपत्संधिषु साग्रेषु विन्यसेत्तदनन्तरम्
हृदि वक्त्रांबुजे टङ्कमृगा भयवरेष्वथ
मूलमन्त्रस्य षड वर्णान्यथावद्देशिकोत्तमः
पश्चादनेन मन्त्रेण कुर्वीत व्यापकं सुधीः
चतुर्मूर्तिवपुश्छायाभासिताङ्गाय शंभवे
ध्यायेन्नित्यं महेशानं रौप्यपर्वतसन्निभम्
परश्वधवराभीतिमृगहस्तं शुभाननम्
व्याघ्रकृतिं वसानं च विश्वाद्यं विश्वरूपकम्
तत्त्वलक्षं जपेन्मन्त्रं दीक्षितः शैववर्त्मना
ततः सिद्धो भवेन्मन्त्रः साधकाभीष्टसिद्धिदः
वामा ज्येष्ठा तथा रौद्री काली कलपदादिका
बलप्रमथनी पश्चात्सर्वभूतदमन्यथ
नमो भगवते पश्चात्सकलादि वदेत्ततः
योगपीठात्मने भूयो नमस्तारादिको मनुः
मूर्तिं मूलेन संकल्प्य तत्रावाह्य यजेच्छिवम्