प्रसूनैररुणैस्तद्वत्तथा बन्धूकसंभवैः
सितरक्तैस्तुमिलितैरायुरारोग्यमाप्नुयात्
तथा गुडूच्या होमेन पायसेन तिलेन च
हवनाच्छ्रियमाप्नोति यावदन्वयगा भवेत्
तत्पङ्क मर्द्दितैर्हेमात्कह्लारैर्विकचैः सुमैः
निःसपत्नो निरातङ्को निर्द्रन्दो निर्मलाशयः
तथैव करवीरोत्थैः प्रसूनैररुणैः सितैः
तथैव पङ्कजैर्हेमाद्रूपाजीवां वशं नयेत्
लभते ऽनुपमां लक्ष्मीमपि पापिष्ठचेतनः
अर्द्धेन्दुकुण्डे नियतं वशगा रिपवो मुने
मृत्युबीजैर्निम्बतैलसिक्तैर्हेमान्निहॄन्ति तान्
अक्षबीजैस्तु तैलाक्तैर्हेमः सर्वविनाशनः
तथैवाक्षतरूद्भूतपञ्चाङ्गहवनादपि
तद्दिने स्यादपस्मारी वैरी भवति निश्चितम्
तद्योनिपिशितैस्तैश्च हवनान्मृत्युकृद्रिपोः
जायन्ते वैरिणः कुष्ठरोगा देहविलोपकाः
दाहज्वरेण ग्रस्तः स्यादरातिस्तद्दिने ध्रुवम्
स्निग्धैः संप्राप्तसद्विद्यैर्जपहोमादि कारयेत्
विद्याभिरन्यथासिद्धमन्त्रमस्याशु नाशयेत्
द्वापरे त्रिगुणं प्रोक्तं कलौतत्तु चतुर्गुणम्
तद्दशांशं मार्जनं स्याद्दशांशं द्विजभोजनम्
कार्या सिद्ध्यै तु विद्यायास्ततः कुर्यात्प्रयोगकान्
सिद्धे मन्त्रे प्रयोगांस्तु विदधीत यथा तथा
कर्तव्यो भगमालाया विद्यासिद्ध्यैमुनीश्वर
कार्यः सिद्ध्यै तु विद्यायाः प्रयोगान्साधयेत्ततः
भेरुडामन्त्रमुक्तं तु शेषं कुर्यात्प्रयत्नतः
अन्यत्सर्वं पुरावच्च कार्य्यं साधकसत्तमैः
हवनादि दशांशेन कार्यं प्रोक्तक्रमेण हि
तद्दशांशक्रमेणैव होमादिः प्रोक्तमार्गतः
कृत्वा होमादिकं सर्वं विद्यासिद्धियैमुनीश्वर