सर्वभूतहितो नित्यं सो ऽभ्यर्च्यो दिविजैः स्मृतः
अनसूयुःशुचिर्दक्षो यः सो ऽप्यर्च्यःसुरेश्वरैः
वेदवादरतो नित्यं स ज्ञेयः पङ्किपावनः
सर्वं यो ब्रह्मण नित्यमस्मदादिषु का कथा
अपरिग्रहशी लश्च देवपूज्यः स नारद
परोपकारनिरतः पूजनीयः सुरासुरैः
सत्संगे ऽपि च यस्यास्ति सो ऽपि वन्द्यः सुरोत्तमैः
करोति भारते वर्षे संबन्धो ऽस्माभिरेव च
स एव दुष्कृतिर्मूढो नास्त्यन्यो ऽस्मादचेतनः
पीयूषकलशं सुक्त्वा विषभाण्डमुपाश्रितः
स एवात्मविधाती स्यात्पापिनामग्रणीर्मुने
स च सर्वाधमः प्रोक्तो वेदविद्भिर्मुनीश्वर
कामधेनुं परित्यज्य अर्कक्षीरं सं मार्गति
ब्रह्माद्या अपि विप्रेन्द्र स्वभोगक्षयभीरवः
देवानां दुर्लभं वापि सर्वकर्मफलप्रदम्
न तस्य सदृशं कश्चित्रिषु विद्यते
नररुपपरिच्छन्नः स हरिर्नात्र संशयः
निवेद्य हरये भक्त्या तत्फलं ह्यक्षयं स्मृतम्
अर्पयेत्सुकृतं कर्म प्रीयतामितिं मे हरिः
फलागृध्नुः कर्मणां तत्प्रात्प्रोति परमं पदम्
यथाश्रमं त्यक्तुकामः प्रान्पोति पदमव्ययम्
स्वाश्रमाचारशून्यश्च पतितः प्रोच्यते बुधैः
तस्य विष्णुश्च तुष्टः स्याद्भक्तियुक्तस्य नारद
पच्यते निरये धोरे स त्वाचन्द्राक्रतारकम्
वासुदेवपरं ज्ञानं वासुदेवपरा गतिः
आब्रह्मस्तम्बपर्यन्तं तस्मादन्यत्र विद्यते
स एवब्रह्माण्डमिदं ततो ऽन्यन्न किञ्चिदस्ति व्यतिरिक्तरुपम्
व्यात्पं हि तेनेदमिदं विचित्रं तं देवदेवं प्रणमेत्समीङ्यम्
श्रद्धयासाध्यते सर्वं श्रद्धया तुष्यते हरिः
कर्मश्चद्धाविहीनानि न सिध्यन्तिं द्विजो तमाः