प्रोक्तेषु स्तंभनं शत्रोर्भङ्गो वा भवति ध्रुवम्
सर्षपाज्यप्लुताभिस्ते प्रणमन्त्येव पादयोः
समिद्भिर्जुहुयात्सम्यग्वारे शार्चनपूर्वकम्
तेनास्य विजयो भूयान्निधनेनापि वा पुनः
पत्रैः पुष्पैः फलैः काण्डैर्मूलैश्चापि हुनेत्क्रमात्
अरातिदिङ्मुखो भूत्वा कुण्डे त्र्यस्रे विधानतः
पलाशेध्मानले तस्य पञ्चाङ्गैस्तद्घृताप्लुतैः
खादिरेध्मानले तस्य पञ्चाङ्गैस्तद्घृताप्लुतैः
अपामार्गस्य सौम्ये ऽह्नि पिप्पलस्य गुरोर्दिने
शुभ्रपीतसितश्यामवर्णाद्याः पूर्ववत्तथा
प्रतिपत्तिथिमारभ्य पञ्चम्यन्तं क्रमेण वै
माहिषाज्यप्लुतैस्ताभिस्तिथिभिः समवाप्नुयात्
प्रागुक्तैर्निस्तुषैर्हेमात्प्रागुक्तफलमाप्नुयात्
सितान्नैः पायसैः सिक्तैराविकैस्तु घृतैस्तथा
एवं नक्षत्रवृक्षोत्थवह्नौ तैस्तैर्मधुप्लुतैः
विद्यां संसाध्य पूर्वं तु पश्चादुक्तानशेषतः
संपूज्य देवतां विप्रकुमारीं कन्यकां तु वा
तथाविधं कुमारं वा संस्थाप्यभ्यर्च्य विद्यया
प्रसूनैररुणैः शुभ्रैः सौरभाढ्यैरथापि वा
ततो देव्या समाविष्टे तस्मिन्संपूज्य भक्तितः
प्रजपंस्तां ततः पृच्छेदभीष्टं कथयेच्च सा
जन्मान्तराण्यतीतानि सर्वं सा पूजिता वदेत्
सहस्रवारं स्थिरधीः पूर्णात्मा विचरेत्सुखी
प्राप्नोति मण्डलं होमात्सितैश्च महद्यशः
सुवर्णं समवाप्नोति निधिं वा वसुधां तु वा
धान्यानि विविधान्याशु सुभगः स भवेन्नरः
तदक्तैरपि कह्लारैर्हवनाद्राजवल्लभः
चतुर्विधं तु पाण्डित्यं भवत्येव न संशयः
कन्यकां लभते पत्नीं समस्तगुणसंयुताम्
क्षौद्राक्षं जुहुयात्तद्वदयत्नाद्धनदोपमः