मधूकजैः प्रसूनैश्च हुतैः कन्यामवाप्नुयात्
माहिषैर्महिषीराजैरजान् गव्यैश्च गास्तथा
शालिपिष्टमयीं कृत्वा पुत्तलीं ससितां ततः
तन्मनाश्च दिवारात्रौ विद्याजप्तां तु भक्षयेत्
दासवद्वशमायाति चित्तप्राणादि चार्पयेत्
त्रिसप्तरात्रान्महतीमवाप्नोति श्रियन्नरः
क्षीराक्तैः सस्यसंपन्नां भुवमाप्नोति मण्डलात्
बिल्वैर्दशांशं जुहुयान्मन्त्राद्यैः साधने जपे
फणिदष्टमृतानां तु मुखे संताड्य जीवयेत्
संताड्यशीर्षं सहसा मृतमुत्थापयेदिति
तिलसर्षपगोधूमशालिधान्ययवैर्हुनेत्
बकुलैश्चंपकैरब्जैः कह्लारैररुणोत्पलैः
अशोकैः पाटलैर्विल्वैर्जातीविकङ्कतैः सितैः
होमाल्लक्ष्मीं च सौभाग्यं निधिमायुर्यशो लभेत्
सितार्कप्लक्षजं हुत्वा चिरान्मुच्येत रोगतः
अचलां लभते लक्ष्मीं भोक्ता च भवति ध्रुवम्
चतुरङ्गुलजैर्हेमाञ्चतुरङ्गबले रिपोः
नित्यं नित्यार्चनं कुर्यात्तथा होमं घृतेन वै
चन्दनोशीरकर्पूरकस्तूरीरोचनान्वितैः
पूजयेच्च शिवामेतैर्गन्धैः सर्वार्थसिद्धये
त्रिजप्ताभिः पिबेत्तोयं तथा वाक्सिद्वये शिवम्
त्रिस्वादुसिक्तैररुणैरंबुजैर्हवनं चरेत्
कुर्यादुक्तान्प्रयोगांश्च न चेत्तन्मनुदेवताः
अनया विद्यया लोके यदसाध्यं न तत्क्वचित्
उद्यानमध्यकान्तारे मातृपादपमूलतः
कमलैः कैरवै रक्तैः सितैः सौगन्धिकोत्पलैः
होमात्सप्तसु वारेषु तन्मण्डलत एव वै
मल्लयुद्धे शस्त्रयुद्धे वादे द्यूतह्नये ऽपि च
चतुरङ्गुलजैः पुप्पैर्हेमात्संस्तंभयेदरीन्
चंपकैः केतकै राजवृक्षजैर्माधवोद्भवैः