घृतहोमादवाप्नोति तथैव तिलतन्दुलैः
मण्डलाल्लभते लक्ष्मीं महतीं श्लाध्यविग्रहाम्
जुहुयान्नित्यशो भक्त्या सहस्रं विकचैः शुभैः
चंपकैः क्षौद्रसंसिक्तैः सहस्रहवनाद्ध्रुवम्
पाटलैर्घृतसंसिक्तैस्त्रिसहस्रं हुतैस्तथा
कर्पूरचन्दनाद्यानि सुगन्धानि तु मासतः
शालिभिः क्षीरसिक्ताभिः सप्तमीषु शतं हुतम्
तिलैर्हुतैस्तु दिवसैर्वर्षादारोग्यमाप्नुयात्
निरातङ्को महाभोगः शतं वर्षाणि जीवति
तेनायुःश्रीयशोभोगपुण्यनिध्यादिमान्भवेत्
आयुरारोग्यविभवैर्नृपामात्यो भवेत्तथा
दूर्वात्रिकैस्तु प्रादेशमानैस्त्रिस्वादुसंयुतैः
तद्दिनेषु जपेद्विद्यां नित्यशः सलिलं स्पृशन्
पाकाद्यमपि तैरव कुर्याद्रोगविमुक्तये
पिष्टं च साध्यपादोत्थरजसा च समन्वितम्
प्राग्वच्छित्वायसैस्तीक्ष्णैः शस्त्रैः पुत्तलिकां हनेत्
तथाविधां पुत्तलिकां कुण्डमध्ये निखन्य च
त्रिसहस्रं त्रियमायां सर्षपैस्तद्रसाप्लुतैः
वशयेद्वनितां हाएंमात्कौशिकैर्मधुमिश्रितैः
तथाज्यसिक्तैः कह्लारैः क्षीराक्तैररुणोत्पलैः
मधूकजैः प्रसूनैश्च हुतैः कन्यामवाप्नुयात्
माहिषैर्महिषीराजैरजान् गव्यैश्च गास्तथा
शालिपिष्टमयीं कृत्वा पुत्तलीं ससितां ततः
तन्मनाश्च दिवारात्रौ विद्याजप्तां तु भक्षयेत्
दासवद्वशमायाति चित्तप्राणादि चार्पयेत्
त्रिसप्तरात्रान्महतीमवाप्नोति श्रियन्नरः
क्षीराक्तैः सस्यसंपन्नां भुवमाप्नोति मण्डलात्
बिल्वैर्दशांशं जुहुयान्मन्त्राद्यैः साधने जपे
फणिदष्टमृतानां तु मुखे संताड्य जीवयेत्
संताड्यशीर्षं सहसा मृतमुत्थापयेदिति