आज्याक्तैः करवीरोत्थैः प्रसूनैररुणैर्हुतैः
भूषावाहनवाणिज्यसिद्धयश्चास्य वाञ्छिताः
सतैलाक्तैर्निशामध्ये त्वानयेद्वाञ्छितां वधूम्
मासादरातेस्तस्यार्तिर्ज्वरेण भवति ध्रुवम्
शत्रोर्द्दाहव्रणानि स्युर्दुःसाध्यानि चिकित्सकैः
मरिचैः सर्षपाज्याक्तौनशि होमानुसारतः
शालिभिश्चाज्यसंसिक्तैर्हेमाच्छालीनवाप्नुयात्
साध्यर्क्षवृक्षसंभूतां पिष्टपादरजःकृताम्
प्रपदाभ्यां च जङ्घाभ्यां जानुभ्यामुरुयुग्मतः
शिरसा च सुतीक्ष्णेन च्छित्वा शस्त्रेण वै क्रमात्
वश्या भवन्ति सप्ताडाज्ज्वरार्त्तीश्चास्य वाञ्छया
कृत्वा पुत्तलिकां साध्यनामयुक्तामथो हृदि
स्पृशन्निजकराग्रेण सहस्रं प्रजपेन्मनुम्
नरनारीनृपास्तस्य वश्याः स्युर्मरणावधिं
तेन वै तिलकं भाले धारयन्वशयेज्जगत्
समानवर्णेवत्साया रक्ताया गोः पयस्तथा
घृतेन सिक्तं सिक्थं तु कृत्वा तत्ससितं करे
एवं होमो महालक्ष्मीमावहेत्प्रतिपत्कृतः
पञ्चम्यां तु विशेषेण प्राग्वद्धोमं समाचरेत्
अन्नाज्याभ्यां च नियतं हुत्वान्नाढ्यो भवेन्नरः
घृतहोमादवाप्नोति तथैव तिलतन्दुलैः
मण्डलाल्लभते लक्ष्मीं महतीं श्लाध्यविग्रहाम्
जुहुयान्नित्यशो भक्त्या सहस्रं विकचैः शुभैः
चंपकैः क्षौद्रसंसिक्तैः सहस्रहवनाद्ध्रुवम्
पाटलैर्घृतसंसिक्तैस्त्रिसहस्रं हुतैस्तथा
कर्पूरचन्दनाद्यानि सुगन्धानि तु मासतः
शालिभिः क्षीरसिक्ताभिः सप्तमीषु शतं हुतम्
तिलैर्हुतैस्तु दिवसैर्वर्षादारोग्यमाप्नुयात्
निरातङ्को महाभोगः शतं वर्षाणि जीवति
तेनायुःश्रीयशोभोगपुण्यनिध्यादिमान्भवेत्