आरुरोह विमानं तत्षष्ठो राजा समांशभाक्
श्रुत्वैतन्मुच्यते पापादाजन्ममरणान्तिकात्
सो ऽप्याप्नोत्यखिलं पुण्यं सरोनिर्माणसंभवम्
शिवस्यापि हरेर्वापि तस्य पुण्यफलं शृणु
कल्पत्रयं विष्णुपदे तिष्टत्येव न संशयः
यावत्पुण्यं भवेत्तस्य तन्मे निगदतः शृणु
कल्पत्रयं विष्णुपदे तिष्टत्येव न संशयः
यावत्पुण्यं भवेत्तस्य तन्मे निगदतः शृणु
कल्पत्रयं विष्णुपदे स्थित्वा ब्रह्मपुरं व्रजेत्
ततस्तु योगिनामेव कुले जातो दयोन्विताः
दारुभिः कुरुते यस्तु तस्य स्याद्दिगुणं फलम्
स्फुटिकाभिः शिलाभिस्तु ज्ञेयं दशगुणोत्तरम्
देवालयं तडागं वा ग्रामं वा पालयेत्तु यः
देवालयस्य शुश्रूषां लेपसेचनमण्डनैः
वेतनाद्विष्टितो वापि पुण्यकर्मप्रवर्त्तिताः
ताडागार्द्धफलं राजन्कासारे परिकीर्तितम्
वापीशतगुणं प्रोक्तं कुल्यायां भूपतेः फलम्
तयोः फलं समानं स्यादित्याह कमलोद्भवः
भुवं तयोः समफलं प्राहुर्वेदविदो जनाः
दरिद्रः कुरुते कूपं समं पुण्यं प्रकीर्तितम्
स याति ब्रह्मभुवनं कुलत्रयसमन्वितः
क्षणार्द्धं तस्य छायायां तिष्टन्स्वर्गं नयत्यमुम्
तडागग्रामकर्त्तारः पूज्यन्ते हरिणा सह
कुर्वते देवतार्थं वा तेषां पुण्यफलं शृणु
तावद्वर्षाणि नाकस्थो मोदते कुलकोटिभिः
प्रयान्ति ब्रह्मणः स्थानं युगानामेकसत्पतिम्
तेषां पुण्यफलं राजन्वदतो मे निशामय
वसेत्कल्पशतं साग्रं नारायणपदं नृप
गङ्गामृतिकया चैव तस्य पुण्यफलं शृणु
संगीयमानचरितो मोदते विष्णुंमदिरे