दाडिमैर्निधिसंसिद्ध्यै मधुकैर्गानसिद्धये
शतपत्रैर्जयावाप्त्यै केतकैर्वाहनाप्तये
पूजयेन्मासमात्रं वा द्विगुणं त्रिगुणं तु वा
सचक्रपरिवारां तां देवीं सलिलमध्यगाम्
घृतैः पूर्णायुषः सिद्ध्यै क्षौद्द्रैः सौभाग्यसिद्धये
सर्वार्थसिद्धय तौर्यैरभिषिञ्चेन्महेश्वरीम्
निवसंस्तत्र तत्पुष्पैर्जायते मन्मथोपमः
कृत्याः परेरिता मन्त्रा विमुखांस्तान् ग्रसंति वै
पूजयन्निष्टमखिलं लभते ऽत्र परत्र च
पूजयन्मासमात्रेण प्राग्जन्माद्यैर्विमुच्यते
विमुक्तसर्वपापौघैस्तां च पश्यति चक्षुषा
मुच्यते पापकृत्यादिदुःखौघैरितरैरपि
भावयन्विषयैः पुष्पैः पूजयंस्तन्मयो भवेत्
तत्तित्तिथौ तद्भजनं जपहोमादिकं चरेत्
क्षौद्रं गुडं नालिकेरफलं लाजा तिलं दधि
कामेश्वर्यादिशक्तीनां सर्वासामपि चोदितम्
निवेदयेञ्च जुहुयाद्वह्नौ दद्यान्नृणामपि
संपिष्य गुटिकीकृत्य ताभिः सर्वं च साधयेत्
भौमे रक्तोत्पलैः सौम्ये वारे तगरसंभवैः
नीलोत्पलैर्मन्दवारे पूजयेदिष्टमादरात्
पायसं दुग्धकदलीनवनीतसिताघृतम्
ग्रहपीडां विजित्याशुसुखानि च समश्नुते
दह्यमानां हृतस्वान्तां मस्तकस्थापिताञ्जलिम्
वायुप्रेङ्खत्पताकास्थपदा पद्मकलेवराम्
चिन्तयन्नर्चयेञ्चक्रं मध्ये देवीं दिगंबराम्
अन्यैः सुगन्धिशेफआलीकुसुमाद्यैः समर्चयेत्
यावच्छरीरपातः स्याच्छापो वानपगास्य सा
तथैव कैरवै रक्तैरङ्गनाः स्ववशं नयेत्
मल्लिकामालतीजातीशतपत्रैर्हुतैर्भवेत्
आरग्वधप्रसूनैस्तु क्षौद्राक्तैर्हवनाद्भवेत्