अनुग्रहोक्तचक्रस्थां देवीं ताभिर्वृतास्मरेत्
ज्वरभूतग्रहोन्मादशीतकाकामलाक्षिहृत्
व्रणप्रमेहच्छर्द्यर्शोग्रहण्यामत्रिदोषजाः
द्रव्यं चक्रस्य निर्माणे काश्मीरं समुदी रितम्
बिलद्वारे लिखेत्त्र्यस्रं षोडशत्र्यस्रसंयुतम्
ताभिस्तच्छक्तिभिः साकं सिद्धद्रव्यैः सुगन्धिभिः
पातालादिषु लोकेषु रमयत्यनिशं चिरम्
पिशाचा गुह्यका वीराः किन्निरा भुजगास्तथा
किंशुकैर्भूषणावाप्तौ पाटलैर्गजसिद्धये
उत्पलैरुष्ट्रसंसिद्ध्यै तगरैः पशुसिद्धये
दाडिमैर्निधिसंसिद्ध्यै मधुकैर्गानसिद्धये
शतपत्रैर्जयावाप्त्यै केतकैर्वाहनाप्तये
पूजयेन्मासमात्रं वा द्विगुणं त्रिगुणं तु वा
सचक्रपरिवारां तां देवीं सलिलमध्यगाम्
घृतैः पूर्णायुषः सिद्ध्यै क्षौद्द्रैः सौभाग्यसिद्धये
सर्वार्थसिद्धय तौर्यैरभिषिञ्चेन्महेश्वरीम्
निवसंस्तत्र तत्पुष्पैर्जायते मन्मथोपमः
कृत्याः परेरिता मन्त्रा विमुखांस्तान् ग्रसंति वै
पूजयन्निष्टमखिलं लभते ऽत्र परत्र च
पूजयन्मासमात्रेण प्राग्जन्माद्यैर्विमुच्यते
विमुक्तसर्वपापौघैस्तां च पश्यति चक्षुषा
मुच्यते पापकृत्यादिदुःखौघैरितरैरपि
भावयन्विषयैः पुष्पैः पूजयंस्तन्मयो भवेत्
तत्तित्तिथौ तद्भजनं जपहोमादिकं चरेत्
क्षौद्रं गुडं नालिकेरफलं लाजा तिलं दधि
कामेश्वर्यादिशक्तीनां सर्वासामपि चोदितम्
निवेदयेञ्च जुहुयाद्वह्नौ दद्यान्नृणामपि
संपिष्य गुटिकीकृत्य ताभिः सर्वं च साधयेत्
भौमे रक्तोत्पलैः सौम्ये वारे तगरसंभवैः
नीलोत्पलैर्मन्दवारे पूजयेदिष्टमादरात्