आषाढ्यां चन्दनैरेलाजातीकङ्कोलकुङ्कुमैः
प्रौष्ठपद्यां गन्धपुष्पैर्यजेद्वा केतकीसुमैः
कार्तिक्यां कुङ्कुमैश्चैव निशि दीपगणैरपि
पौष्यां सशर्करगुडैर्गवां दुग्धैः समर्चयेत्
फआल्गुन्यां विविधैर्द्रव्यैः फलैः पुष्पैः सुगन्धिभिः
सिद्धद्रव्यैश्च सप्ताहात्खेचरीमेलनं भवेत्
कदम्बगजातिपुष्पाभ्यां सिद्धद्रव्यैः शिवां यजेत्
केतकीकुसुमैः सिद्धाश्चेटका वारिधेस्तटे
वसूनि मालां भूषां च दद्युरस्येहयानिशम्
शाल्मलैः कुसुमैः सिद्धद्रव्यैर्मासं तु निर्भयम्
अश्मपातप्रहाराद्यैर्जीयादाभिर्द्विषश्चिरम्
यजेद्देवीं चक्रगतां सिद्धद्रव्यसमन्विताम्
तेन सिद्ध्यन्ति वेतालास्तानारुह्येच्छया चरेत्
मध्यरात्रे यजेद्देवीं कृष्णवस्त्रविभूषणैः
साध्य योनिं तदग्रे तु बलिं छिन्दन्निवेदयेत्
जायन्ते भीषणाः कृत्यास्ताभ्यः सिद्धिं निवेदयेत्
देव्या ललाटनेत्रे स्युः प्रार्थिते तु तिरोहिताः
उद्याने निर्जने देवीं चक्रे संचिन्त्य पूजयेत्
सिद्धद्रव्यसमोपेतैर्मायाः सिद्ध्यन्ति मासतः
याभिर्विश्वजयी विश्वचारी विश्वविनोदवान्
चन्द्रचन्दनकस्तूरीमृगनाभिमहोदयैः
पूर्णप्रतीतौ भव्यानि विकले ऽभव्यमीरितम्
विवेका विभवा विश्वा वितता च प्रकीर्तिता
गौरी शिवा ह्यमेया च विमला विजया परा
अशेषरूपा स्वानन्दांबुजाक्षी चाप्यनिन्दिता
विद्या वागीश्वरी सत्या संयता च सरस्वती
पूषा चैव तथा तुष्टिः पुष्टिश्चापि रतिर्धृतिः
देवीनामानि चैतानि चुलुके सलिले स्मरन्
ताडीं सारस्वतीं जिह्वां दीपाकारां स्मरन्पिबेत्
एवं नित्यमुषः काले यः कुर्याच्छुद्धमानसः