तद्विधानं च वक्ष्यामि सम्यगासवकल्पनम्
गतुडमुष्णोदके क्षिप्त्वा समालोड्य विनिक्षिपेत्
खात्वा भूमौ संध्ययोस्तु करैः संक्षोभ्य भूयसा
संशोध्य पूजयेत्तेन गौडी सा गुडयोगतः
अध्यर्द्धद्विगुणे तोये श्रपयेत्तन्दुलं शनैः
दिनमेकं धृते वाते निवाते स्थापयेत्ततः
वृक्षजं फलजं चेति द्विविधं क्रियते मधु
मृद्वीकांवाथ खर्जूरफलं पुष्पमथापि वा
प्राक्सृतासवलेशेन मिलितं दिवसद्वयात्
वार्क्षं तु नालिकेरं स्याद्धिन्तालस्याथ तालतः
नालिके रफलान्तस्थसलिले शशिना युते
आतपे सद्य एवैतदासवं देवताप्रियाम्
देवैः कृत्वा ततः सद्यो दद्यात्तत्सिद्धये द्वयम्
न कदाचित्पिबोत्सिद्धो देव्यर्थमनिवेदितम्
ततः करोति चेत्सद्यः पातकी भवति ध्रुवम्
पातकी राजदण्ड्यश्च रिक्थोपासक एव
सिद्धस्य सर्वदा प्रोक्तं यतो ऽसौ तन्मयो भवेत्
उपचारैरासवैश्च मत्स्यैर्मांसैस्तु संस्कृतैः
येषामाचरणात्सिद्धिं साधको लभते ध्रुवम्
वैशाखे मासि पूर्णायां पूजयेद्धेमपुष्पकैः
आषाढ्यां चन्दनैरेलाजातीकङ्कोलकुङ्कुमैः
प्रौष्ठपद्यां गन्धपुष्पैर्यजेद्वा केतकीसुमैः
कार्तिक्यां कुङ्कुमैश्चैव निशि दीपगणैरपि
पौष्यां सशर्करगुडैर्गवां दुग्धैः समर्चयेत्
फआल्गुन्यां विविधैर्द्रव्यैः फलैः पुष्पैः सुगन्धिभिः
सिद्धद्रव्यैश्च सप्ताहात्खेचरीमेलनं भवेत्
कदम्बगजातिपुष्पाभ्यां सिद्धद्रव्यैः शिवां यजेत्
केतकीकुसुमैः सिद्धाश्चेटका वारिधेस्तटे
वसूनि मालां भूषां च दद्युरस्येहयानिशम्
शाल्मलैः कुसुमैः सिद्धद्रव्यैर्मासं तु निर्भयम्