कथितं चित्रगुत्पेन धर्मं सरसिसंभवम्
अधित्यकायां भूपाल सैकतस्य गिरेः परा
ततः कालान्तरे तेन वाराहेण नृपोत्तम
ततो ऽन्यदामुया काल्याहस्त युग्ममितः कृतः
पीतं क्षुद्रैर्वनचरैः सत्त्वैस्तृष्णासमाकुलैः
हस्तत्रयमितः खातः कृतस्तत्राधिकं जलम्
भवांस्तत्र समायातो जलशोषाद नन्तरम्
ततस्तस्योपदेशेन मन्त्रिणो नृपते त्वया
वृक्षाश्च रोपितास्तत्र सर्वलोकोपकारिणः
विमानं धर्म्यमारुढास्त्वमाण्येनं समारुह
आरुरोह विमानं तत्षष्ठो राजा समांशभाक्
श्रुत्वैतन्मुच्यते पापादाजन्ममरणान्तिकात्
सो ऽप्याप्नोत्यखिलं पुण्यं सरोनिर्माणसंभवम्
शिवस्यापि हरेर्वापि तस्य पुण्यफलं शृणु
कल्पत्रयं विष्णुपदे तिष्टत्येव न संशयः
यावत्पुण्यं भवेत्तस्य तन्मे निगदतः शृणु
कल्पत्रयं विष्णुपदे तिष्टत्येव न संशयः
यावत्पुण्यं भवेत्तस्य तन्मे निगदतः शृणु
कल्पत्रयं विष्णुपदे स्थित्वा ब्रह्मपुरं व्रजेत्
ततस्तु योगिनामेव कुले जातो दयोन्विताः
दारुभिः कुरुते यस्तु तस्य स्याद्दिगुणं फलम्
स्फुटिकाभिः शिलाभिस्तु ज्ञेयं दशगुणोत्तरम्
देवालयं तडागं वा ग्रामं वा पालयेत्तु यः
देवालयस्य शुश्रूषां लेपसेचनमण्डनैः
वेतनाद्विष्टितो वापि पुण्यकर्मप्रवर्त्तिताः
ताडागार्द्धफलं राजन्कासारे परिकीर्तितम्
वापीशतगुणं प्रोक्तं कुल्यायां भूपतेः फलम्
तयोः फलं समानं स्यादित्याह कमलोद्भवः
भुवं तयोः समफलं प्राहुर्वेदविदो जनाः
दरिद्रः कुरुते कूपं समं पुण्यं प्रकीर्तितम्