व्याकुलाक्षरसंकेता गायत्री प्रणवादिका
सिद्धसारस्वता मृत्युञ्जया च त्रिपुरा तथा
गौरी च देवी हृदया लक्षदा च मतङ्गिनी
राजलक्ष्मीर्महालक्ष्मीः सिद्धलक्ष्मीर्गवानना
सर्वार्थसिद्धिदं प्रोक्तं चतुर्वर्गफलप्रदम्
स यो गी ब्रह्मविज्ज्ञानी शिवयोगी तथात्मवित्
लोकानुरञ्जनं नारीनृपावर्जनकर्म च
त्रिरावृत्त्यास्य वै पुंसो विश्वं भूयाद्वशे ऽखिलम्
फलत्येव प्रयोगार्हे लोकरक्षाकरो भवेत्
भजन्त्येनं साधकं च देव्यामाहितचेतसः
अचिरेणैव देवीनां प्रसादात्संभवन्ति च
अष्टावृत्त्या नरो भूपान्निग्रहानुग्रहक्षमः
दशावृत्त्या पठेन्नित्यं वाग्लक्ष्मीकान्तिसिद्धये
अर्कावृत्त्या सिद्धिभिः स्याद्दिग्भिर्मर्त्यो हरोपमः
शक्रावृत्त्याखिलेष्टाप्तिः सर्वतो मङ्गलं भवेत्
षोडशावृत्तितो भूयान्नरः साक्षान्महेश्वरः
मण्डलं मासमात्रं वा यो जपेद्यद्यदाशयः
इत्येतत्कथितं विप्र नित्यावृत्त्यर्चनाश्रितम्
नाम्नां सहस्रं मनसो ऽभीष्टसंपादनक्षमम्
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे ललितास्तोत्र कवचसहस्रनामकथनं नामैकोननवतितमो ऽध्यायाः
पटलं ते ऽभिधास्यामि नित्याभ्यर्चनदीपकम्
शेषेण देवीरूपेण तेन स्यादिदमीरितम्
तस्याश्चार्थस्तु कथितः सर्वतन्त्रेषु गोपितः
तयोर्विमर्श ईकारो बिन्दुना तन्निफआलनम्
एकार्णवन्तो द्व्यर्णाश्च त्रिदिङ्मुखार्णकाः
तैर्भेदयो जनं कुर्यात्संदर्भाणामशेषतः
उभयात्मकमप्यात्मस्वरूपं तैश्च भावयेत्
पराहॄन्तामयं सर्वस्वरूपं चात्मविग्रहम्
प्रकाशरूपमात्मत्वे वस्तु तद्भासते परम्
यद्विद्येति समाख्यातं सर्वथा सर्वतः सदा