गौरी शिवा ह्यमेया च विमला विजया परा
अशेषरूपा ह्यानन्दांबुजाक्षी चाप्यनिन्दिता
विद्या वागीश्वरी सत्या संयता च सरस्वती
पूषा चैव तथा पुष्टिस्तुष्टिश्चापि रतिर्धृतिः
पूर्णा पूर्णामृता कामदायिनीन्दुकलात्मिका
सुषुम्णा भोगदा विश्वा बाधिनी धारिनी धारिणी क्षमा
सुश्रीः स्वरूपा कपिला हव्यकव्यवहा तथा
सर्वभक्षा सहस्राक्षी निःसंगा च गतिप्रिया
सर्वा संसिद्धिरूपा च पावनीत्येकरूपिणी
तथा शांभववेधा च भावनासिद्धिसृचिनी
षण्मुखा रविरूपा च माता दुर्गा दिशा तथा
अश्विनी च यमी वह्नि रूपा धात्रीति कीर्तिता
अर्यम्णा च भगा सूर्या त्वाष्ट्रिमारुतिसंज्ञिका
वैश्वदेवी हरितभूर्वासवी वरुणा जया
उदुंबरा जंबुका च खदिरा कृष्णारूपिणी
पक्षका च तथाम्बष्ठा बिल्वाचार्जुनरूपिणी
वञ्जुला पनसार्का च शमी हलिप्रियाम्रका
नागिनी सर्पिणी चैव शुनी चापि बिडालिकी
शार्दूली सैरिभी व्याघ्री हरिणी च मृगी शुनी
नगा गौर्हस्तिनी चेति तथा षट्चक्रवासिनी
सोमा सूर्या तिथिर्वारा योगार्क्षा करणात्मिका
क्रोधिनी स्तंभिनी चण्डोञ्चण्डा ब्राह्मादिरूपिणी
भौमाप्या तैजसीवायुरूपीणी नाभसा तथा
पञ्चविंशतिवक्त्रा च षड्विंशद्वदना तथा
एकाशीतिमुखा चैव शताननसमन्विता
वृणावृत्तिस्वरूपा च नाथावृत्तिस्वरूपिणी
तत्त्वावृत्तिस्वरूपापि नित्यावृत्तिवपुर्द्धरा
गुरुपङ्क्तिस्वरूपा च विद्यावृत्तितनुस्तथा
मध्यमा वैखरी शीर्षकण्ठताल्वोष्ठदन्तगा
पदवाक्यस्वरूपा च वेदभाषास्वरूपिणी