नागा कूर्मा तच कृकला देवदत्ता धनञ्जया
हुङ्कारी खेटचरी चण्डाछेदिनी क्षपिणी तथा
श्रीविद्यामतवर्णाङ्गी काली याम्या नृपार्णका
बहुरूपा चित्तरूपा रम्यानन्दा च कौतुका
वाक्स्वरूपा बिन्दुसर्गरूपा विश्वात्मिका तथा
आयुर्लक्ष्मीकीर्तिभोगसैन्दर्यारोग्यदायिका
जीवाख्या विजयाख्या च तथैव विश्वविन्मयी
विश्वमो हनिका चैव त्रिपुरामृतसंज्ञिका
क्लेदिनी च समाख्याता तथैव च महोदया
प्रीतिर्मनोभवा वापि प्रोक्ता वाराधिपा तथा
अनाहत गता चैव मणिपूरकसंस्थिता
षट्त्रिंशत्कूटरूपा च पञ्चाशन्मिथुनात्मिका
कामरूपप्रदा वेतालरूपा च पिशाचिका
विशाला मदना तुष्टा कालकण्ठी महाभया
मेखला सकला लक्ष्मीर्मालिनीविश्वनायिका
कामेश्वरी नन्दिनी च स्वर्णरेखा मनोहरा
कल्याणदा कलादक्षा ततश्च सुरसुन्दरी
सिंहनादा महानादा सुग्रीवा मर्कटा शठा
मयूरा मङ्गला भीमा द्विपवक्त्रा खरानना
सैरिभास्या गजमुखा पशुवक्त्रा मृगानना
महोदरा स्थूलशिखा विकृतास्या वरानना
मनोहरा दीर्घजङ्घा स्थूलदन्ता दशानना
कपटा कौतुका काला किङ्करा कितवा खला
जया च विजया दुर्गा भद्रा भद्रकरी तथा
विदारिका विश्वमयी विश्वा विश्वविभञ्जिता
वीतशोका विषग्रीवा विपुला विजयप्रदा
मनोहरा मङ्गली च मदोत्सिक्ता मनस्विनी
भद्रा भवानी भव्या च विशालाक्षी शुचिस्मिता
नित्या चाप्यमृता चैव जीविता च तथा दया
विवेका विभवा विश्वा वितता च प्रकीर्तिता