अनल्पाव्यक्तविभवा विविधाक्षोभविग्रहा
नित्या निरञ्जना क्लिन्ना क्लेदेनी मदनातुरा
मदाविला मङ्गला च मन्मथानी मनस्विनी
विजया विमला चैव शुभा विश्वा तथैव च
कमला कामिनी चैव किराता कीर्तिरूपिणी
कल्याणी कालकोला च डाकिनी शाकिनी तथा
इच्छाज्ञाना क्रियाख्या चाप्यायुधाष्टकधारिणी
ज्वालिनी विस्फुलिङ्गा च मङ्गला सुमनोहरा
मेषा वृषाह्वया चैव मिथुना कर्कटा तथा
कुम्भा मीना च सारा च सर्वभक्षा तथैव च
निःसपत्ना निरातङ्का याचनाचिन्त्यवैभवा
हृल्लेखा क्लेदिनी क्लिन्ना क्षोभिणी मदनातुरा
मेखला द्राविणी वेगवती चैव प्रकीर्तिता
किरता च तथा काला कदना कौशिका तथा
कीर्तिश्चापि कुमारी च कुङ्कुमा परिकीर्तिता
रतिः श्रद्धा भोगलोला मदोन्मत्ता मनस्विनी
विनोदा कौतुका पुण्या पुराणा परिकीर्तिता
बीजविघ्नहरा विद्या सुमुखी सुंदरी तथा
समया सर्वगा विद्धा शिवा वाणी च कीर्तिता
नादा मनोन्मनी प्राणप्रतिष्ठारुणवैभवा
नागा कूर्मा तच कृकला देवदत्ता धनञ्जया
हुङ्कारी खेटचरी चण्डाछेदिनी क्षपिणी तथा
श्रीविद्यामतवर्णाङ्गी काली याम्या नृपार्णका
बहुरूपा चित्तरूपा रम्यानन्दा च कौतुका
वाक्स्वरूपा बिन्दुसर्गरूपा विश्वात्मिका तथा
आयुर्लक्ष्मीकीर्तिभोगसैन्दर्यारोग्यदायिका
जीवाख्या विजयाख्या च तथैव विश्वविन्मयी
विश्वमो हनिका चैव त्रिपुरामृतसंज्ञिका
क्लेदिनी च समाख्याता तथैव च महोदया
प्रीतिर्मनोभवा वापि प्रोक्ता वाराधिपा तथा